Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी युवानः आत्मकथाः पठितुं, अन्येषां जीवनसङ्घर्षेभ्यः शिक्षितुं च प्रेरितवान्। सः अवदत् यत् सामाजिक-माध्यमानां लघुदृश्यानां च युगे लघुमार्गस्य अर्थात् शीघ्रसफलतायाः प्रवृत्तिः वर्धमाना अस्ति। युवजनाः स्मरन्तु यत् जीवनस्य सफलतायै कश्चित् सरलः लघुमार्गः नास्ति। आत्मकथानां माध्यमेन व्यक्तेः जीवनस्य तस्य कालखण्डस्य च इतिहासस्य समीपस्थं ज्ञानं प्राप्तुं शक्यते।
पूर्वराष्ट्रपतेः रामनाथकोविन्दस्य ‘ट्रायम्फ् ऑफ् द इण्डियन रिपब्लिक्—माय लाइफ, माय स्ट्रगल्स्’ इत्यस्य आत्मकथाग्रन्थस्य विमोचनसमारोहे सः एतान् विचारान् प्रकटितवान्। कोविन्दस्य जीवनयात्रा, तस्य सङ्घर्षाः, देशस्य कृते तस्य योगदानं च नववंशस्य कृते प्रेरणास्रोतः अस्ति इति मोदीवर्यः अवदत्। एषा आत्मकथा भारतीयजनतन्त्रस्य भारतीयसमाजस्य च परम्परायाः महत्त्वपूर्णं तथ्यं भविष्यति। पुस्तकस्य शीर्षके एव सन्देशः निहितः अस्ति यत् यद्यपि पूर्वराष्ट्रपतेः कोविन्दस्य जीवनसङ्घर्षः व्यक्तिगतः आसीत्, तथापि तस्य सफलता भारतस्य गणराज्यस्य लोकतन्त्रस्य च विजयः अस्ति।
कोविन्देन सह दीर्घकालीनं सम्बन्धं स्मरन् मोदीवर्यः अवदत् यत् तं निकटतया ज्ञातुं तथा राष्ट्रपतिरूपेण तस्य मार्गदर्शनं प्राप्तुं स्वस्मै अवसरः प्राप्तः। सः कोविन्दस्य स्नेहम् आत्मीयतां च स्वस्य महतीं सम्पत्तिं वर्णितवान्। प्रधानमन्त्री अवदत् यत् कोविन्दः सामान्यपरिवारात् उत्थाय स्वपरिश्रमेण क्षमतया च देशस्य सर्वोच्चं संवैधानिकं पदं प्राप्तवान्।
कानपुरदेहात् जनपदे सामान्यपरिवारे जन्म प्राप्तस्य कोविन्दस्य गृहे कदाचित् अग्निदुर्घटना अभवत् इति सः अवदत्। अस्यां दुर्घटनायां तस्य माता मृता। प्रधानमन्त्री अवदत् यत् अल्पवयसि स्वमातुः वियोगः अत्यन्तं दुःखदः आसीत्, किन्तु कोविन्दः एताभिः परिस्थितिभिः विचलितः न अभवत्, अपितु तेन ताभिः परिस्थितिभिः दृढता प्राप्ता। प्रतिवेशिनी एका महिला तस्य पालनपोषणे साहाय्यं कृतवती, यदा तस्य पिता परिवारस्य पालनं कुर्वन् बालकेभ्यः संस्कारान् अयच्छत्। कोविन्दः स्वपितरं स्वस्य आदर्शपुरुषं मन्यते।
प्रधानमन्त्री अवदत् यत् कोविन्दः बाल्ये कठिनपरिस्थितिषु शिक्षां स्वशक्तिं कृतवान्। सः संसाधनानाम् अभावं दुर्बलतारूपेण न स्वीकृतवान्, अपितु स्वपरिश्रमेण राष्ट्रपतिपदपर्यन्तं प्रगतवान्। एतावद् उच्चं पदं प्राप्य अपि कोविन्दस्य सरलता विनम्रता च अक्षुण्णा आसीत्।
मोदीवर्यः अवदत् यत् राष्ट्रपतिभवने स्वकार्यकाले कोविन्दः केवलं औपचारिकशिष्टाचारं न पालयन्, अपितु आत्मीयतया व्यवहरति स्म। सः प्रधानमन्त्रिणं प्रति अपि अत्यन्तम् आत्मीयतया व्यवहरति स्म। राष्ट्रपतित्वकाले यदा कोविन्दः स्वग्रामं परौङ्खं गतवान्, तदा सः स्वगुरूणां पादस्पर्शं कृत्वा ग्रामस्य मृत्तिकां प्रणम्य स्वीकृतवान्। तस्य आचरणेन भारतीयसंस्कृतेः सुन्दरं स्वरूपं विश्वस्य समक्षं प्रस्तुतम्।
सः अवदत् यत् कोविन्दस्य जीवनं भारतस्य स्वप्नस्य साकाररूपस्य उदाहरणम् अस्ति, यत्र निर्धनोऽपि शोषितोऽपि व्यक्तिः स्वपरिश्रमेण योग्यतया च देशस्य सर्वोच्चं पदं प्राप्तुं शक्नोति। महात्मागान्धिनः, डॉ. भीमराव-अम्बेडकरस्य, ज्योतिराव-फुले इत्यस्य, सावित्रीबाई-फुले इत्येतयोः योगदानस्य उल्लेखं कुर्वन् मोदी अवदत् यत् एते महापुरुषाः तादृशस्य भारतस्य स्वप्नं दृष्टवन्तः, यत्र समाजस्य अन्तिमः व्यक्तिरपि अग्रे गन्तुम् अवसरं प्राप्नुयात्।
प्रधानमन्त्री मोदी कठिनपरिस्थितिषु निराशां न स्वीकर्तुं युवानः प्रेरितवान्। सः अवदत् यत् देशाय तादृशाः युवानः आवश्यकाः सन्ति ये समस्यासु निमग्नाः न भवन्ति, समस्याभिः निरुत्साहिताः न भवन्ति, अपितु परिश्रमेण अग्रे गच्छन्ति। सः अवदत् यत् कोविन्दस्य आत्मकथा युवसु तथैव आत्मविश्वासं सङ्कल्पं च जागरयितुं शक्नोति।
सः अवदत् यत् कोविन्दः स्वस्य आत्मकथायां पूर्वप्रधानमन्त्रिणा मोरारजी-देसायिना सह कार्यस्य तस्मात् प्राप्तानां शिक्षानुभवानां च उल्लेखं कृतवान्। सः राजनीतिं समाजसेवां च स्वजीवनस्य मार्गरूपेण स्वीकृतवान् तथा संसदः सदस्यरूपेण, बिहारस्य राज्यपालरूपेण, राष्ट्रपतिरूपेण च स्वदायित्वानि निर्वुढवान्।
प्रधानमन्त्री अवदत् यत् राष्ट्रपतिपदात् निवृत्तेः अनन्तरमपि कोविन्दः सक्रियः अस्ति तथा ‘एकं राष्ट्रम्, एकं निर्वाचनम्’ इत्यादिषु महत्त्वपूर्णेषु विषयेषु कार्यं कुर्वन् अस्ति। देशस्य जनाः, विशेषतः युवानः, कोविन्दस्य कर्तव्यबोधात् सेवाभावात् च शिक्षां गृह्णीयुः।
सः अवदत् यत् सामाजिकजीवने सक्रियः भूत्वा आत्मकथां लिखितुं सुलभं न भवति, किन्तु कोविन्दः स्वानुभवान् भाविवंशानां कृते सुरक्षितवान्। सः अवदत् यत् सामान्यपरिवाराणां सङ्घर्षाः, सत्यनिष्ठा, जीवनमूल्यानि च व्यक्तेः व्यक्तित्वं कथं निर्मापयन्ति इति अवगन्तुं पुस्तकं महत्त्वपूर्णम् अवसरं प्रददाति।
सामाजिकमाध्यमानां लघुदृश्यानां च युगस्य उल्लेखं कुर्वन् प्रधानमन्त्रिणा नरेन्द्रमोदिना युवानः लघुमार्गस्य अनुसरणं त्यक्तुं प्रेरिताः। सः अवदत् यत् रेलस्थानकेषु लिखितं भवति— “लघुमार्गः भवन्तं लघुतरं करिष्यति।” अस्मिन् सन्दर्भे सः युवानः आत्मकथाः पठितुं प्रेरितवान्। मोदीवर्यः अवदत् यत् आत्मकथाः केवलं पुस्तकपठनस्य माध्यमेन न, अपितु जीवनानुभवानां माध्यमेन इतिहासं ज्ञातुं अवसरं ददति। कोविन्दस्य आत्मकथा तस्य परिश्रमस्य अनुभवस्य च लाभं भाविवंशेभ्यः, विशेषतः युवभ्यः, प्रदास्यति।
Hindusthan Samachar / Divya Ranjan