प्रधानमन्त्रिणा मोदिना दृष्ट्या-विचारेण-वचसा कर्मणा च जनमनोजयस्य सन्देशः प्रदत्तः
नवदिल्ली, १२ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी यूनां भूमिकायाः तेषां सेवाभावस्य च प्रशंसां कुर्वन् अवदत् यत् युवानः न केवलं देशस्य भविष्यं, अपितु वर्तमानस्य अपि महत्तमा शक्तिः सन्ति। प्रधानमन्त्री बुधवासरे ‘एक्स’ इत्यत्र सुभाषितं लिखित्
प्रधानमंत्री नरेन्द्र


नवदिल्ली, १२ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी यूनां भूमिकायाः तेषां सेवाभावस्य च प्रशंसां कुर्वन् अवदत् यत् युवानः न केवलं देशस्य भविष्यं, अपितु वर्तमानस्य अपि महत्तमा शक्तिः सन्ति। प्रधानमन्त्री बुधवासरे ‘एक्स’ इत्यत्र सुभाषितं लिखित्वा लिखितवान् यत् देशस्य युवानः स्वसंवेदनशीलतया, सेवाभावेन सामर्थ्येन च सम्पूर्णे विश्वे स्वकीयं विशिष्टं परिचयं निर्मापयन्ति।अस्यैव सन्दर्भे सः संस्कृतस्य इदं सुभाषितं सहभागं कृतवान् —

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति॥

अस्य सुभाषितस्य भावार्थः अस्ति यत् यः जनः स्वदृष्टिकोणेन, विचारैः, वचनैः कर्मभिश्च जनानां मनांसि जयति, सः प्रतिफलरूपेण जनानां विश्वासं, सम्मानं सद्भावनां च प्राप्नोति।

Hindusthan Samachar / Divya Ranjan