Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अगस्तमासः (हि.स.)। प्रधानमन्त्रीसङ्ग्रहालय-पुस्तकालयेन बुधवासरे स्वस्य नूतनम् एकीकृतं पटलम् उद्घाटितम्। अस्य नूतनस्य पटलस्य माध्यमेन पी.एम.एम.एल.-सम्बद्धाः विविधाः अङ्कीयसेवाः जालपुटानि च एकस्मिन् मञ्चे आनीताः सन्ति। नागरिकाणां, शोधकर्तॄणां तथा अन्येषां प्रयोक्तॄणां कृते अधिकसुलभं आधुनिकं च अङ्कीयमञ्चं रूपेण एतत् विकसितम् अस्ति।
पी.एम.एम.एल.-पक्षतः प्रदत्तविवरणानुसारं नूतनं पटलं पूर्वं पृथक् पृथक् उपलब्धानि जालपुटानि अङ्कीयसेवाश्च एकत्र संयोजयति। अस्य उद्देश्यं प्रयोक्तॄणां कृते विभिन्नेषु जालपुटेषु गन्तुं आवश्यकतां न्यूनीकर्तुं तथा प्रधानमन्त्रिसङ्ग्रहालय-पुस्तकालयसम्बद्धानां सामग्रीणां, सेवानां, अभिलेखीयसंसाधनानां च सुलभां प्राप्तिं प्रदातुम् अस्ति।
पटले चलदूरवाणी-अनुकूलं प्रारूपं सर्वेषां नागरिकाणां कृते सुलभाः सुविधाश्च प्रदत्ताः सन्ति। नागरिकसहायतायै बुद्धिमत्-सहायता, बुद्धिमत्-अन्वेषणं विश्लेषणं च, कार्यक्रमसम्बन्धिनी सूचना, प्रवेशपत्र-प्रबन्धनम्, अवतरण-सङ्ग्रहालयः, छायाचित्र-चलचित्र-दीर्घा च इत्यादयः सुविधाः अस्मिन् अन्तर्भवन्ति।
नूतने पटले गतिशील-सामग्री-प्रबन्धन-व्यवस्थापि प्रदत्ता अस्ति। तदतिरिक्तम्, कृत्रिमबुद्धिम् आधृतं संवादयन्त्रम् अपि समाविष्टम् अस्ति, यत् शीघ्रमेव प्रारभ्यते। एतत् संवादयन्त्रं नागरिकेभ्यः सूचनां प्रदातुं तेषां प्रतिक्रियाः प्राप्तुं च साहाय्यं करिष्यति। पटले स्वयमेव अभिलेख-संरक्षण-कार्यप्रवाहः, बुद्धिमत्-सामग्री-अन्वेषणं, वास्तविककाल-सहभागिता-दृश्यपटलं च इत्यादयः सुविधाः अपि सन्ति।
पी.एम.एम.एल.-अनुसारं पटलम् आधुनिक-प्रौद्योगिकीव्यवस्थायां निर्मितम् अस्ति। एतत् जी.आई.जि.डब्ल्यू., डब्ल्यू-.सी.ए.जी. सुलभतामानदण्डानां तथा सी.ई.आर.टी.-इन. सुरक्षामानदण्डानां अनुरूपम् अस्ति। विभिन्नप्रयोक्तॄणां कृते भूमिकाम् आधृत्य प्रवेश-नियन्त्रणस्य व्यापक-परीक्षण-पथस्य च सुविधापि अस्मिन् अस्ति।
पटलस्य उद्घाटनं कुर्वन् पी.एम.एम.एल. इत्यस्य निदेशकः अश्विनी लोहानी अवदत् यत् नूतनं पी.एम.एम.एल.-पटलं सुलभानां भविष्यसज्जानां च अङ्कीय-सार्वजनिकसेवाः प्रति संस्थायाः प्रतिबद्धतां प्रदर्शयति। सः अवदत् यत् भारतस्य समृद्धां राजनैतिकां सांस्कृतिकां च परम्परां संरक्षितुं तथा नागरिकेभ्यः विश्वस्य शोधकर्तृभ्यश्च तस्याः उपलब्धिं सुनिश्चितुं अस्य पटलस्य निर्माणं कृतम् अस्ति।
Hindusthan Samachar / Divya Ranjan