१४ अगस्तमासे विभाजन-विभीषिका-दिवसे मौनयात्रा, मन्त्री प्रमोद-चन्द्रवंशी उपस्थिताः भविष्यन्ति
कटिहारम्, १२ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य जनपदकार्यालये जनपदाध्यक्षस्य मनोजरायस्य अध्यक्ष-तायाम् अग्रिमराजनैतिक-सामाजिक-कार्यक्रमाणां रूपरेखानिर्माणार्थं महत्त्वपूर्णा सभा आयोजिता। सभायां मुख्यरूपेण पूर्वोपमुख्यमन्त्री तारकिशोरप्रसादः, पूर
बैठक करते हुए भाजपाई


कटिहारम्, १२ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य जनपदकार्यालये जनपदाध्यक्षस्य मनोजरायस्य अध्यक्ष-तायाम् अग्रिमराजनैतिक-सामाजिक-कार्यक्रमाणां रूपरेखानिर्माणार्थं महत्त्वपूर्णा सभा आयोजिता।

सभायां मुख्यरूपेण पूर्वोपमुख्यमन्त्री तारकिशोरप्रसादः, पूर्वसांसदः निखिल-कुमार-चौधरी, प्रदेशमन्त्री सीमाझा, जनपदमहामन्त्री रामनाथपाण्डे, सौरभ-कुमारमालाकारः, जनपद-उपाध्यक्षः प्रेम-प्रकाशचौधरी, अशोकगुप्तः गौरव-पासवानश्च उपस्थिताः आसन्।

सभायां उपस्थितान् कार्यकर्तॄन् सम्बोधयन् जनपदाध्यक्षः मनोजरायः अवदत् यत् दलस्य निर्देशानुसारं मण्डल-शक्तिकेन्द्र-जनपदस्तरेषु सभाः मासे एकवारं विभिन्नेषु दिनाङ्केषु आयोजनीयाः, येन सङ्गठनस्य कार्याणि अधिकप्रभावशालिरूपेण सम्पादयितुं शक्येरन्।

अग्रिमकार्यक्रमाणां विषये सः अवदत् यत् अगस्तमासस्य १४ दिनाङ्के विभाजन-विभीषिका-दिवसः आचरिष्यते। तस्य पूर्वसन्ध्यायां जनपदप्रभारीमन्त्री तथा बिहारसर्वकारस्य खानिभू-तत्त्वमन्त्री प्रमोदचन्द्रवंश्यस्य उपस्थितौ भव्यं मौनशोभायात्रा आयोजयिष्यते।

तदनन्तरं जनपदाध्यक्षः अवदत् यत् कटिहारस्य जनपदमुख्यालये तथा मण्डलस्तरे भव्यतया त्रिरङ्गायात्रा आयोजयिष्यते। अगस्तमासस्य १५ दिनाङ्के भारतीयजनतापक्षस्य जनपद-कार्यालये राष्ट्रध्वजः आरोपयिष्यते। एतदतिरिक्तं सन्तशिरोमणि-श्रीगुरु-रविदासजयन्त्या सम्बद्धानां कार्यक्रमाणां शक्तिकेन्द्रात् पञ्चायतस्तरपर्यन्तं तथा बूथस्तरपर्यन्तं आयोजनार्थं विशेषसज्जा-करणस्य विषये अपि विस्तरेण चर्चा अभवत्।

पूर्वोपमुख्यमन्त्री तारकिशोरप्रसादः स्वसम्बोधने अवदत् यत् भारतीय-जनतापक्षे सम्पूर्णे बिहारराज्ये अग्रिम-विविधकार्यक्रमान् मण्डलस्तरात् पञ्चा-यतस्तरपर्यन्तं सफलतया सम्पादयिष्यति।

सभायां जनपद-उपाध्यक्षः राघवेन्द्रसिंहः, महिलामोर्चाध्यक्षाः प्रियङ्कासिंहः, युवा-मोर्चामहामन्त्री जोक्षनयादवः, सोनूसिन्हः, रञ्जनझा, श्वेतारायः, किसानमोर्चाध्यक्षः नरेशमण्डलः, राजेन्द्ररजकः च सहिताः सर्वे विधानसभाप्रभारिणः, विधानसभा-संयोजकाः, जनपदस्य तथा विभिन्न-मोर्चानां सर्वे पदाधिकारिणश्च सम्मिलिताः आसन्।

Hindusthan Samachar / Divya Ranjan