Enter your Email Address to subscribe to our newsletters

लखनऊ, 12 अगस्तमासः (हि.स.)।
१८५७ तमस्य प्रथमस्वातन्त्र्यसङ्ग्रामस्य महानायकस्य अवधकेसरिणः राणा बेनी माधव बक्श सिंहस्य अद्वितीयं साहसं बलिदानं च भाविसन्ततिपर्यन्तं प्रापयितुं रायबरेलीजनपदस्य सलोननगरे विकसितं भवन् भव्यं स्मारकपरिसरम् अधुना अन्तिमचरणं प्राप्तवान् अस्ति। सभागारेण, पुस्तकालयेन, अतिथिगृहेण, मुक्ताकाशरङ्गमञ्चेन, आधुनिकप्रकाशध्वनिव्यवस्थया च सुसज्जितः अयं परिसरः न केवलं स्वातन्त्र्यसङ्ग्रामस्य इतिहासं जीवन्तं करिष्यति, अपितु क्षेत्रस्य सांस्कृतिकस्य ऐतिहासिकस्य च पर्यटनस्यापि नूतनां परिचितिं प्रदास्यति।
पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः बुधवासरे अवदत् यत् अस्याः परियोजनायाः प्रथमचरणस्य अन्तर्गतं अवधकेसरिणः राणा बेनी माधव बक्श सिंहस्य स्मृतौ सभागारस्य पुस्तकालयस्य च निर्माणकार्यं प्रायः पूर्णं जातम् अस्ति। अस्मिन् चरणे २०.०९ कोटिरूप्यकाणां धनराशिः विमुक्ता अस्ति तथा निर्माणकार्यं यावत् ९५ प्रतिशतं पूर्णं जातम् अस्ति। भवनस्य मुख्यसंरचना सज्जा जाता, यदा तु पुट्टीकार्यं, रङ्गकार्यं, कृत्रिमच्छदः, भित्तिपट्टिकाकरणं, प्राङ्गणछदिः इत्यादीनि अन्तिमसज्जाकार्याणि तीव्रगत्या प्रचलन्ति, यानि अस्मिन्नेव मासे पूर्णानि भविष्यन्ति।
परियोजनायाः द्वितीयचरणे स्मारकपरिसरस्य अधिकविस्तारः क्रियमाणः अस्ति। अस्मिन् चरणे १२ कोटिरूप्यकाणां धनराशिः स्वीकृता अस्ति तथा निर्माणकार्यं ६५ प्रतिशतं पूर्णं जातम् अस्ति। धारणभित्तेः परिसीमाभित्तेश्च निर्माणं पूर्णं जातम् अस्ति। अतिथिगृहस्य भूतलस्य छदिपट्टिका तथा प्रथमतलस्य आवरणनिर्माणकार्यं च पूर्णं जातम् अस्ति। तदतिरिक्तं आधारनिर्माणं, ईएसएस तथा अग्निकक्षस्य निर्माणं पूर्णं जातम् अस्ति, यदा तु मुक्ताकाशरङ्गमञ्चस्य अन्यसंरचनानां च निर्माणकार्यं तथा सज्जाकार्यं तीव्रगत्या प्रचलति।
स्मारकपरिसरं आधुनिकस्वरूपं प्रदातुं प्रकाशध्वन्याधारितानि आन्तरिकविकासकार्याण्यपि क्रियमाणानि सन्ति। अस्य कार्यस्य कृते ४ कोटिरूप्यकाणां धनराशिः विमुक्ता अस्ति तथा अद्यावधि ७५ प्रतिशतं कार्यं पूर्णं जातम् अस्ति। आधुनिकप्रकाशस्य ध्वनेश्च प्रौद्योगिक्याः माध्यमेन राणा बेनी माधव बक्श सिंहस्य शौर्यं, बलिदानं, स्वातन्त्र्यसङ्ग्रामे तस्य योगदानं च आकर्षकरूपेण प्रस्तुतं करिष्यते, येन आगन्तुकाः इतिहासस्य जीवन्तमनुभवं प्राप्तुं शक्नुवन्ति।
पर्यटनसंस्कृतिमन्त्री अवदत् यत् १८५७ तमस्य प्रथमस्वातन्त्र्यसङ्ग्रामस्य महानायकः अवधकेसरिः राणा बेनी माधव बक्श सिंहः रायबरेलीजनपदस्य जगतपुरस्थितायाः शंकरपुररियासतस्य शासकः आसीत् तथा आङ्ग्लशासनस्य विरुद्धं संघर्षं कृतवद्भिः प्रभावशालिकान्तिक्रान्तिनेतृभिः मध्ये परिगण्यते। सः अवधस्य तालुकेदारान् भूमिस्वामिनश्च एकत्र संयोज्य ब्रिटिशशासनस्य विरुद्धं सशक्तं सङ्घर्षम् आरब्धवान्। १८५७ तमस्य जुलाईमासपर्यन्तं सः अवधस्य प्रमुखतमः क्रान्तिनायकः अभवत्।
२८ जून १८५७ तमे दिने बाराबङ्कीजिलायाः नवाबगञ्जे सः आङ्ग्लसेनां करुणतया पराजितवान् तथा चिनहटनाम्नि ऐतिहासिके युद्धेऽपि स्ववीरतां प्रदर्शितवान्। १८५८ तमस्य नवम्बरमासे गोविन्दपुरभीरा इत्यत्र प्रायः दशसहस्रसैनिकैः सह आङ्ग्लसेनाम् आक्रम्य सः अपरां महत्त्वपूर्णां विजयम् अपि प्राप्तवान्। राणा बेनी माधव बक्श सिंहः राष्ट्रभक्तेः, साहसस्य, बलिदानस्य च एतादृशीम् आदर्शमुदाहरणं स्थापितवान्, यस्य प्रतिध्वनिः अद्यापि “अवध माँ राना भयो मर्दाना” इत्यादिषु लोकगीतेषु श्रूयते।
सः अवदत् यत् रायबरेलीजनपदस्य सलोननगरे विकसितः भवन् अवधकेसरिणः राणा बेनी माधव बक्श सिंहस्य स्मारकपरिसरः तस्यामेव अमरविरासतिं भाविसन्ततिपर्यन्तं प्रापयितुं सशक्तं माध्यमं भविष्यति। सभागारेण, पुस्तकालयेन, मुक्ताकाशरङ्गमञ्चेन, आधुनिकप्रकाशध्वनिप्रदर्शनेन अन्याभिः च सांस्कृतिकसुविधाभिः सुसज्जितः अयं परिसरः न केवलं १८५७ तमस्य स्वातन्त्र्यसङ्ग्रामस्य इतिहासं जीवन्तं करिष्यति, अपितु युवानः राष्ट्रभक्तेः बलिदानस्य च प्रेरणामपि प्रदास्यति। साथमेव एषा परियोजना रायबरेलीजनपदं सांस्कृतिकस्य, ऐतिहासिकस्य, विरासत्पर्यटनस्य च प्रमुखकेन्द्ररूपेण स्थापयितुं दिशि महत्त्वपूर्णं सोपानं सिद्धं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani