‘लुङ्गीधारी’ इति टिप्पणीं प्रति राज्यसभायां कोलाहलः, सभापतिना सर्वेभ्यः मर्यादां पालितुं परामर्शः प्रदत्तः
नवदिल्ली, १२ अगस्तमासः (हि.स.)। राज्यसभायां केरलेभ्यः सी.पी.आई. दलस्य सांसदं जॉनब्रिट्टासं प्रति कथितां ‘लुङ्गीधारी’ इति टिप्पणीं नीत्वा बुधवासरे सदने तीव्रः कोलाहलः अभवत्। जॉन् ब्रिट्टासः आरोपितवान् यत् भाजपा-सांसदया सुष्मितादेवः इत्यनया तस्य कृते
राज्य सभा सांसद जॉन ब्रिटास


नवदिल्ली, १२ अगस्तमासः (हि.स.)। राज्यसभायां केरलेभ्यः सी.पी.आई. दलस्य सांसदं जॉनब्रिट्टासं प्रति कथितां ‘लुङ्गीधारी’ इति टिप्पणीं नीत्वा बुधवासरे सदने तीव्रः कोलाहलः अभवत्। जॉन् ब्रिट्टासः आरोपितवान् यत् भाजपा-सांसदया सुष्मितादेवः इत्यनया तस्य कृते अपमानजनकरीत्या ‘लुङ्गीधारी’ इति शब्दस्य प्रयोगः कृतः। अस्मिन् विषये सः राज्यसभायाः सभापतिं प्रति विशेषाधिकारभङ्गस्य सूचनां प्रदत्तवान्।

सभापतिः सी.पी. राधाकृष्णन् सदने सर्वान् सदस्यान् मर्यादां स्थापयितुं परामर्शं दत्तवान्। सः अवदत्, “मम संज्ञाने केचन विषयाः आगताः, येषु सदने भाषमाणानां सदस्याणां भाषणसमये मध्ये वारं वारं हस्तक्षेपं कुर्वद्भिः असभ्याः गरिमा-विरुद्धाश्च टिप्पण्यः कृताः। अहं सर्वान् माननीयसदस्यान् आग्रहं करोमि यत् ते स्वसहसदस्यानां भावनाः संवेदनाश्च आहताः न कुर्युः। अस्माकं संस्कृतिः विविधतापूर्णा अस्ति तथा कस्यापि सदस्यस्य सांस्कृतिकपरम्परायाः क्षेत्रीय-परिचयस्य वा अनादरः न करणीयः।”

अस्मिन् विषये सदनस्य नेता तथा केन्द्रीयमन्त्री जे.पी. नड्डा अवदत् यत् अस्मिन् प्रकरणे केवलम् एकस्य पक्षस्य वचनं श्रुत्वा निर्णयः करणं समुचितं न भविष्यति। सः आग्रहं कृतवान् यत् सांसदया सुष्मितादेवः इत्यनया अपि स्वपक्षं प्रस्तोतुं पूर्णः अवसरः प्रदातव्यः, येन सर्वेषां तथ्यानां आधारेण निष्पक्षः निर्णयः कर्तुं शक्येत।

अपरतः जॉन् ब्रिट्टासः माध्यमप्रतिनिधिभिः सह वार्तालापे अवदत्, “तस्मिन् दिने यदा अहं सदने भाषमाणः आसम्, तदा भाजपा-सांसदया सुष्मिता देव: इत्यनया मम कृते ‘लुङ्गीधारी’ इति अपमानजनकरी टिप्पणी कृता। तस्मिन् समये अहं धौतवस्त्रं धारयन् आसम् तथा च मलयाली-दक्षिणभारतीयः इति स्वपरिचयेन अपि अहं गर्वितः अस्मि। एषा अस्माकं सांस्कृतिकवेषभूषायाः अङ्गम् अस्ति। किन्तु यदा एतादृशस्य परिचयस्य प्रयोगः कस्यचित् अवमाननायै अपमानाय वा क्रियते, तदा तत् स्वीकार्यं न भवति।”

सः अवदत् यत् सदनेन अस्मिन् विषये उचितः दृष्टिकोणः स्वीकरणीयः। “वयं तस्याः विरुद्धं विशेषाधिकारभङ्गस्य सूचना दत्ता अस्ति। व्यक्तिगततया मम मनसि कस्यापि विरुद्धं दुर्भावना नास्ति,” इति सः अवदत्।

Hindusthan Samachar / Divya Ranjan