Enter your Email Address to subscribe to our newsletters

बांसवाड़ा, 12 अगस्तमासः (हि.स.)।प्रदेशस्य अन्येभ्यः भागेभ्यः भिन्नं बांसवाड़ा डूंगरपुर इत्येतयोः अर्थात् वागड़प्रदेशे श्रावणमासस्य प्रारम्भः एका अनन्या विशिष्टा च परम्परया भवति। यत्र बहुषु प्रदेशेषु सावनपक्षः पूर्वमेव प्रारभते, तत्र वागड़प्रदेशे हरियाली अमावस्यायाः एव श्रावणमासस्य तथा सम्पूर्णवर्षे आयोज्यमानानां लोकपर्वणाम् उत्सवानां च शुभारम्भः भवति। अस्य पावनपर्वणः उत्साहपूर्वकं पालनस्य जीवने माधुर्यं सञ्चारयितुं च परम्परा शताब्देभ्यः प्रचलिता अस्ति।
हरियाली अमावस्यायाः अस्मिन् विशिष्टे अवसरे पारम्परिकरूपेण मालपुआ इति मिष्टान्नस्य निर्माणस्य भक्षणस्य च विशेषं महत्त्वम् अस्ति। नगरस्य मिष्टान्नविक्रयालयेषु प्रातःकालादेव पारम्परिकानां स्वादिष्टानां च मालपुआनां निर्माणं प्रारभते, तान् क्रेतुं च ग्राहकाणां समूहः रात्रिपर्यन्तं दृश्यते। अपरतः गृहेषु शुद्धेन देशीघृतेन निर्मीयमाणानां मालपुआनां सुगन्धः सम्पूर्णे वातावरणे प्रसृतः भवति।
श्रावणमासस्य अस्य पावनस्य आगमने प्रकृतिरपि स्वस्य पूर्णं सौन्दर्यं प्रदर्शयति। प्रातःकालादेव मूसलधारावृष्टेः क्रमः प्रवर्तते, येन सर्वत्र हरितिमा व्याप्ता जाता।
एकतः श्रावणमासस्य पवित्रता, अपरतः हरियाली अमावस्यायाः उल्लासः, उपरि च रिमझिमवृष्टेः फुहाराः मालपुआनां च मनोहरः सुगन्धः। एतेषां त्रयाणां समागमेन सम्पूर्णं वातावरणं भक्तिभावेन, उत्साहेन उमङ्गेन च परिपूर्णं जातम्।
पण्डितः अनन्तजोशी अवदत् यत् गुजरातस्य समीपे वागड़प्रदेशस्य स्थितेः कारणेन अत्र श्रावणमासः अमावस्यायाः अनन्तरं शुक्लपक्षतः प्रारभते। अत्रत्याः जनाः चन्द्रमसः प्रगतिम् अनुसृत्य शुक्लपक्षम् उत्तमं मन्यन्ते। चन्द्रमा शनैः शनैः स्वकलाभिः पूर्णिमापर्यन्तं पूर्णतां प्राप्नोति। तथैव जीवनेऽपि अन्धकारः दूरीभूय सकारात्मकशक्तेः सञ्चारः भवति। एतमेव भावं मनसि निधाय गुजरातसंस्कृतेः प्रभावेन सर्वे धार्मिकाः शुभकार्यक्रमाश्च शुक्लपक्षादेव प्रारभन्ते।
महिलाभक्ता डिम्पल पटेल् अवदत् यत् श्रावणमासस्य अवधौ पार्थिवशिवलिङ्गानि निर्माय जनपदस्य विभिन्नेषु शिवालयेषु प्रतिदिनं मनोहराः शृङ्गाराः क्रियन्ते तथा च रात्रौ महाआरती आयोज्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani