क्रीडामंत्रालयः टीटीएफआई इत्यस्य मान्यता निलंबिता कृता, आईओए इत्येतत् तदर्थं समितिं निर्मातुं निर्देशः
नवदिल्ली, 12 अगस्तमासः (हि.स.)। क्रीडामन्त्रालयेन प्रशासनव्यवस्थायां विद्यमानानां दोषाणां, समये निर्वाचनं न कृतम् इत्यादीनां अनेकानां विषयाणां कारणात् बुधवासरे टेबल टेनिस फेडरेशन ऑफ इण्डिया (टीटीएफआई) इत्यस्य मान्यतां निलम्बिता। मन्त्रालयेन भारती
टेबल टेनिस (प्रतीकात्मक चित्र)


नवदिल्ली, 12 अगस्तमासः (हि.स.)।

क्रीडामन्त्रालयेन प्रशासनव्यवस्थायां विद्यमानानां दोषाणां, समये निर्वाचनं न कृतम् इत्यादीनां अनेकानां विषयाणां कारणात् बुधवासरे टेबल टेनिस फेडरेशन ऑफ इण्डिया (टीटीएफआई) इत्यस्य मान्यतां निलम्बिता। मन्त्रालयेन भारतीय ओलम्पिक संघाय (आईओए) अन्ताराष्ट्रिय टेबल टेनिस महासंघेन (आईटीटीएफ) सह विचारविमर्शं कृत्वा क्रीडायाः संचालनाय तदर्थसमितेः गठनं कर्तुं निर्देशः प्रदत्तः।

मन्त्रालयेन स्वकीयादेशे उक्तं यत् टीटीएफआई इत्यस्मै अस्य वर्षस्य प्रारम्भे कारणदर्शकसूचना प्रदत्ता आसीत्, किन्तु महासंघेन प्रस्तुतं प्रत्युत्तरम् असन्तोषजनकम् इति दृष्टम्। ततः मान्यतां निलम्बितुं निर्णयः कृतः। मन्त्रालयेन स्वकीयवक्तव्ये उक्तं, आईओए अन्ताराष्ट्रियसंस्थायाः आईटीटीएफ इत्यस्य परामर्शेन टीटीएफआई इत्यस्मिन् समुचिताम् आन्तरिकनियामकव्यवस्थां स्थापयितुं आवश्यकानि पदानि स्वीकरिष्यति। यावत् टीटीएफआई इत्यस्मिन् विधिवत् गठिता शासनव्यवस्था पुनः स्थापिता न भवति, तावत् तदर्थसमितेः गठनम् अपि अस्य अन्तर्गतं भविष्यति।

मन्त्रालयेन टीटीएफआईद्वारा समये निर्वाचनं न कृतम् इति निलम्बनस्य प्रमुखेषु कारणेषु अन्तर्भावितम्। मन्त्रालयस्य अनुसारं राष्ट्रियक्रीडामहासंघात् अपेक्षिता उत्तरदायित्वपूर्णा तथा लोकतान्त्रिककार्यप्रणाली न अनुसृता। तदतिरिक्तं टीटीएफआईद्वारा मन्त्रालयेन निर्गतानां निर्देशानां मार्गदर्शिकानां च पुनः पुनः उपेक्षा कृता।

टीटीएफआई इत्यस्य अध्यक्षपदं मेघना अहलावत् दिसम्बरमासे २०२२ तमे वर्षे स्वीकृतवती आसीत्। सा महासंघस्य प्रथमा महिला अध्यक्षः अस्ति। तस्याः कार्यकालस्य प्रारम्भादेव महासंघस्य कार्यप्रणालीं प्रति समये समये विवादाः उद्भवन्तः आसन्।

टीटीएफआईद्वारा अस्य वर्षस्य जनवरीमासे पूर्वक्रीडकः महासचिवश्च कमलेश मेहता कथितवित्तीयानियमिततायाः आरोपेण निलम्बितः आसीत्। मेहता इत्यनेन एतत् निर्णयं दिल्ली उच्चन्यायालये आह्वानितम्। ततः न्यायालयेन तस्य निलम्बनं निरस्तीकृतम्।

एषः विषयः महासंघस्य अन्तः प्रचलितस्य कथितसत्तासंघर्षस्य रूपेण अपि सम्मुखम् आगतः। तथापि टीटीएफआईद्वारा एतेषाम् आरोपाणां खण्डनं कृत्वा उक्तं यत् निर्णयः पारदर्शितायाः, सामूहिकनिर्णयप्रक्रियायाः तथा भारतीयटेबल टेनिसस्य दीर्घकालिकहितानां च दृष्ट्या कृतः आसीत्।

मणिका बत्रा इत्यस्याः चयनविवादेन अपि महासंघः विवादितः आसीत्

टीटीएफआई तदा अपि विवादे आगतः यदा प्रसिद्धा टेबल टेनिसक्रीडिका मणिका बत्रा एशियाईक्रीडायाः दलमध्ये समावेशिता न आसीत्। महासंघेन अस्याः पृष्ठतः आवश्यकाः घरेलुप्रतियोगिताः न क्रीडिताः इति कारणं प्रदर्शितम्। मणिका इत्यनया सार्वजनिकरूपेण अस्य निर्णयस्य आलोचना कृत्वा चयनप्रक्रियां अस्पष्टाम् अन्यायपूर्णां च कथयित्वा क्रीडामन्त्रालयात् हस्तक्षेपस्य आग्रहः कृतः। मन्त्रालयेन टीटीएफआई इत्यस्य कार्यप्रणाल्या सम्बद्धानां सर्वेषां विषयाणां संज्ञानं स्वीकृत्य महासंघाय कारणदर्शकसूचना प्रदत्ता आसीत्।

राष्ट्रीयप्रतियोगितायाः विलम्बे अपि मन्त्रालयस्य असन्तोषः

क्रीडामन्त्रालयेन क्रीडकानां कल्याणं सुनिश्चितं कर्तुं टीटीएफआई इत्यस्य भूमिकायाः विषये अपि प्रश्नाः उत्थापिताः। मन्त्रालयेन गतवर्षे राष्ट्रियप्रतियोगितायाः आयोजने जातः विलम्बः अस्य एकम् उदाहरणम् इति उक्तम्। टीटीएफआई इत्यस्मै अस्मिन् वर्षे निर्वाचनं कर्तव्यम् अस्ति, किन्तु अद्यापि निर्वाचनप्रक्रिया कदा प्रारप्स्यते इत्यस्मिन् विषये स्पष्टा सूचना न प्रदत्ता।

२०२२ तमे वर्षे अपि निलम्बितः आसीत् टीटीएफआई

टीटीएफआई इत्यस्य पूर्वमपि फेब्रुवरीमासे २०२२ तमे वर्षे दिल्ली उच्चन्यायालयेन निलम्बनं कृतम् आसीत्। तस्मिन् समये मणिका बत्रा इत्यनया महासंघस्य चयननीतेः विरुद्धं न्यायालये आह्वानं कृतम् आसीत्, यस्य कारणेन तस्याः एशियाईचैम्पियनशिप् दलात् बहिष्कारः कृतः आसीत्। दिल्ली उच्चन्यायालयेन तस्मिन् समये प्रशासकस्य नियुक्तेः आदेशः प्रदत्तः तथा टीटीएफआई इत्यस्य कार्यप्रणाल्याः स्थितिं प्रति कठोराः टिप्पण्यः कृताः। ततः दिसम्बरमासे २०२२ तमे वर्षे नूतननिर्वाचनस्य अनन्तरं महासंघस्य पुनः स्थापना कृता आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani