एन. चन्द्रशेखरेण टाटा-समूहस्य अध्यक्षपदात् निवृत्तेः घोषणा कृता
नवदिल्ली, १२ अगस्तमासः (हि.स.)। देशस्य अग्रणी-औद्योगिकसमूहस्य टाटा-सन्स इत्यस्य अध्यक्षः एन. चन्द्रशेखरः अद्य घोषितवान् यत् सः स्वस्य वर्तमान-कार्यकालस्य २०२७ तमस्य वर्षस्य फरवरी-मासस्य २० दिनाङ्के समाप्ते सति पुनर्नियुक्त्यर्थं स्वनाम न प्रस्तोष्य
एन. चन्द्रशेखरेण टाटा-समूहस्य अध्यक्षपदात् निवृत्तेः घोषणा कृता


नवदिल्ली, १२ अगस्तमासः (हि.स.)। देशस्य अग्रणी-औद्योगिकसमूहस्य टाटा-सन्स इत्यस्य अध्यक्षः एन. चन्द्रशेखरः अद्य घोषितवान् यत् सः स्वस्य वर्तमान-कार्यकालस्य २०२७ तमस्य वर्षस्य फरवरी-मासस्य २० दिनाङ्के समाप्ते सति पुनर्नियुक्त्यर्थं स्वनाम न प्रस्तोष्यति। सः सञ्चालकमण्डलं शीघ्रमेव तस्य उत्तराधिकारिणः चयनं कर्तुं अनुरोधितवान्।त्रिषष्टिवर्षीयः चन्द्रशेखरः बुधवासरे स्ववक्तव्ये अवदत् यत् टाटा-समूहे तस्य व्यावसायिकजीवनस्य चत्वारिंशत् वर्षाणि पूर्णानि अभवन्। अस्य प्रतिष्ठितस्य संस्थानस्य कृते योगदानं दातुं तस्य कृते अत्यन्तं सन्तोषप्रदं जातम्। गतदशकात् टाटा-सन्स इत्यस्य नेतृत्वं कर्तुं तस्य कृते महत् सम्मानं गम्भीरा च उत्तरदायित्वभावना आसीत्।

चन्द्रशेखरेण स्पष्टं कृतं यत् सर दोराबजी टाटा न्यासेन सर रतन टाटा न्यासेन च सर्वसम्मत्या तस्य अग्रिमकार्यकालः पञ्चवर्षाणां कृते विस्तारितुं अनुशंसा कृता आसीत्। एषः प्रस्तावः टाटा-सन्स इत्यस्य नामाङ्कन-पारिश्रमिकसमित्या सञ्चालक-मण्डलेन च अनुशंसितः आसीत्। किन्तु फरवरी-मासस्य २४ दिनाङ्के आयोजितायां सञ्चालक-मण्डलस्य सभायां सर्वसम्मतसमर्थनं न प्राप्तत्वात् सः निर्णयं स्थगयितुं विकल्पितवान्।

सः अवदत् यत् षण्मासाः व्यतीताः, तथापि निर्णयः न जातः, यदा टाटा-सन्स अनेकासां रणनीतिकपरियोजनानां महत्त्वपूर्णे कार्यान्वयनचरणे अस्ति। अतः २०२७ तमस्य वर्षस्य फरवरी-मासस्य अनन्तरं समूहस्य नेतृत्वं कः करिष्यति इत्यस्मिन् विषये स्पष्टता आवश्यकास्ति। चन्द्रशेखरेण सञ्चालकमण्डलं अनुरोधं कृतवान् यत् उचितं सुनिश्चितुं शीघ्रमेव उत्तराधिकारसम्बन्धीनिर्णयं करोतु। स्ववक्तव्यस्य अन्ते सः सर्वेषां हितधारकाणां समर्थनाय कृतज्ञतां प्रकटितवान्।

एन. चन्द्रशेखरस्य व्यावसायिकयात्रा

एन. चन्द्रशेखरः २०१७ तमे वर्षे टाटा-सन्स इत्यस्य अध्यक्षः अभवत्। ततः पूर्वं सः टाटा कन्सल्टेन्सी सर्विसेज इत्यस्य मुख्यकार्यकारी-अधिकारी प्रबन्ध-निदेशकश्च आसीत्। तस्य नेतृत्वे संस्था वैश्विक-सूचनाप्रौद्योगिकी-सेवाक्षेत्रे उल्लेखनीयां वृद्धिं प्राप्तवती।

तस्य कार्यकाले टाटा-समूहेन अङ्कीय-परिवर्तनं, वैश्विकविस्तारः, रणनैतिक-निवेशाश्च विशेषरूपेण प्रोत्साहिताः। चन्द्रशेखरस्य नेतृत्वे टाटा-समूहेन एयर-इण्डिया इत्यस्य अधिग्रहणं कृतम्, विद्युद्वाहनेषु नवीकरणीय-ऊर्जाक्षेत्रे च निवेशः वर्धितः तथा समूहस्य निर्माणिभ्यः नूतना प्रौद्योगिकीयदिशा प्रदत्ता।

चन्द्रशेखरस्य नेतृत्वे टाटा-समूहस्य आधुनिकीकरणं तथा वैश्विकप्रतिस्पर्धायां तस्य अग्रणीस्थानस्य सुदृढीकरणं जातम् इति तस्य योगदानस्य विशेषतया उल्लेखः क्रियते।

Hindusthan Samachar / Divya Ranjan