Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 12 अगस्तमासः (हि.स.)।“हरेकं गृहे त्रिवर्णध्वजः” इत्यभियानस्य अन्तर्गतं रामानुजगञ्जनगरे अद्य बुधवासरे त्रिवर्णध्वजयात्रा आयोजिता। पतञ्जलियोगशिक्षाकायाकल्पस्य सञ्चालकयोः डॉ. ज्ञानेन्द्रवाजपेयी आरतीवाजपेयी च नेतृत्वे निर्गतायामस्यां यात्रायां जनाः उत्साहपूर्वकं भागं गृहीतवन्तः। यात्रायाः अवधौ देशभक्तिभावेन त्रिवर्णध्वजं हस्ते धारयित्वा जनाः नगरस्य विभिन्नेषु मार्गेषु भ्रमणं कृतवन्तः।
त्रिवर्णध्वजयात्रायाः प्रारम्भः राममन्दिरात् अभवत्। ततः यात्रा गान्धीचौक, पीपलचौक, मध्यबाजार, भारतमाताचौक, लरंगसायचौक इत्येतेषु स्थानेषु गत्वा पुनः गान्धीचौकं प्राप्तवती। मार्गे जनैः त्रिवर्णध्वजस्य सम्मानस्य देशभक्तेः च सन्देशः प्रसारितः।
गान्धीचौकं प्राप्ते महात्मागान्धिनः प्रतिमायां माल्यार्पणं कृतम्। तदनन्तरं त्रिवर्णध्वजयात्रायाः विधिवत् समापनम् अभवत्। कार्यक्रमस्य अन्ते उपस्थितेभ्यः सर्वेभ्यः जनभ्यः अल्पाहारस्य वितरणं कृतम्।
आयोजकैः उक्तं यत् “हरेकं गृहे त्रिवर्णध्वजः” इत्यभियानस्य उद्देश्यं जनानां मनसि राष्ट्रियध्वजस्य सम्मानस्य देशभक्तेः च भावनां सुदृढां कर्तुम् अस्ति। त्रिवर्णध्वजयात्रायाः माध्यमेन नागरिकाः स्वातन्त्र्यदिवसस्य अवसरे स्वगृहेषु त्रिवर्णध्वजम् आरोहयितुं अपि प्रेरिताः।
Hindusthan Samachar / Dheeraj Maithani