Enter your Email Address to subscribe to our newsletters

औरैया, 12 अगस्तमासः (हि. स.)।
उत्तरप्रदेशस्य औरैयाजनपदस्य स्वातन्त्र्यान्दोलनस्य इतिहासे अगस्तमासस्य द्वादशतिथिः औरैयायै गौरवस्य बलिदानस्य च प्रतीकरूपेण स्मर्यते। १९४२ तमस्य वर्षस्य अगस्तमासस्य द्वादशे दिने भारतत्यागान्दोलनस्य समये क्रान्तिकारिभिः औरैया-सदर-तहसील-भवने फहरत् आङ्ग्लशासनस्य प्रतीकं यूनियन जैक इति ध्वजम् अवतार्य तस्य स्थाने तिरङ्गध्वजः फहरितः। अस्मिन् क्रमे आङ्ग्लशासनस्य दमनात्मककार्यवाह्यां षट् क्रान्तिकारिणः हुतात्मानः अभवन्, पञ्चाशदधिकाः जनाः च आहताः अभवन्। बुधवासरे अस्य ऐतिहासिकस्य घटनाक्रमस्य स्मृतौ सदरतहसीले शहीदप्राङ्गणे च कार्यक्रमः आयोजितः, यत्र वीरसुपुत्रेभ्यः श्रद्धाञ्जलिः समर्पिता।
अस्य ऐतिहासिकस्य आन्दोलनस्य नेतृत्वं कुर्वतां क्रान्तिकारिणां त्रयीमध्ये छक्कीलालदुबे, बल्देवप्रसादः उर्फ बल्दूपहलवानः, हाफिजकरीमः च प्रमुखाः आसन्। तेषु बल्दूपहलवानस्य भूमिका अत्यन्तमहत्त्वपूर्णा मन्यते। परिवारजनानां कथनानुसारं सः स्वातन्त्र्यान्दोलनस्य समये आङ्ग्लशासनस्य विरुद्धं जनान् जागरयितुं महत्त्वपूर्णां भूमिकां निर्वहन् आसीत्।
ग्रामं ग्रामं गत्वा स्वातन्त्र्यस्य भावनां प्रज्वालितवान्
१८८६ तमे वर्षे औरैयायाः समीपे सनावलीगढियाग्रामे जन्म प्राप्तवान् बल्देवप्रसादः उर्फ बल्दूपहलवानः बाल्यकालादेव अन्यायस्य विरुद्धं स्वरम् उत्थापयितुं प्रसिद्धः आसीत्। सः रात्रौ जनसमूहं निर्माय गस्तं करोति स्म तथा जनानां प्राणधनयोः रक्षणं करोति स्म। अनन्तरं स्वातन्त्र्यान्दोलने सक्रियतया सम्मिलितः सः जालौन, पुखरायां, डेरापुर, फर्रुखाबाद, कन्नौज इत्यादिषु समीपस्थेषु क्षेत्रेषु जनसभाः आयोज्य जनान् आङ्ग्लशासनस्य विरुद्धं जागरूकान् अकरोत्।
१९३० तमे वर्षे लगाननिरोधान्दोलने भागं गृहीतवतः तस्य बदनपुरस्थिताः चतुर्दशबीघामिताः भूमिः आङ्ग्लशासनेन अधिगृहीता। तस्मै षण्मासानां कठोरकारावासस्य आर्थिकदण्डस्य च दण्डः प्रदत्तः।
पञ्चसप्ततिः मल्लयुद्धानि कृतवान्, एकस्मिन्नपि न पराजितः
परिवारस्य वृद्धजनानां कथनानुसारं बल्दूपहलवानः स्वकाले प्रसिद्धेषु मल्लेषु परिगण्यते स्म। सः प्रायः पञ्चसप्ततिः प्रमुखानि मल्लयुद्धानि अयुध्यत, किन्तु एकस्मिन्नपि प्रतिस्पर्धायां पराजयं न स्वीकृतवान्। मल्लयुद्धेषु प्राप्तां पुरस्कारराशिं सः दरिद्रेभ्यः आवश्यकताग्रस्तेभ्यश्च वितरति स्म। प्रायः अशीतिवर्षवयःपर्यन्तं सः मल्लयुद्धेषु निर्णायकस्य भूमिकां निर्वहन् आसीत्। तस्य सम्पर्कः काकोरीकाण्डस्य नायकस्य मुकुन्दीलालस्य सहापि आसीत्। १९७१ तमस्य वर्षस्य मार्चमासे षडशीतिवर्षीयस्य तस्य निधनम् अभवत्।
शहीदप्राङ्गणे तहसीलपरिसरे च श्रद्धाञ्जलिः
स्वातन्त्र्यसङ्ग्रामस्य वीरसुपुत्राणां स्मृतौ शहीदप्राङ्गणे अपि कार्यक्रमः आयोजितः। बुधवासरे प्रातः एकादशवादने नगरपालिकाध्यक्षः अनूपगुप्तः स्वातन्त्र्यान्दोलने औरैयायाः वीरसुपुत्राणां योगदानस्य विषये प्रकाशं पातयन् तेषां संघर्षं बलिदानं च स्मृतवान्।
तत्रैव सदरतहसीलपरिसरे उपजिलाधिकारी ब्रह्मानन्दः, नगरपालिकापरिषदः स्वच्छतनिरीक्षकः आशीषपाण्डेयः अन्ये च जनाः वीरस्तम्भे पुष्पाणि समर्प्य शहीदेभ्यः श्रद्धाञ्जलिं समर्पितवन्तः। अस्मिन् अवसरे ज्ञानेन्द्रदुबे, प्रवीणगुप्तः, अनिलसेङ्गरः, विवेकपोरवालः, आनन्दनाथगुप्तः, राजेन्द्रबाजपेयी, विशालपरिहारः इत्यादयः अन्ये च जनाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani