Enter your Email Address to subscribe to our newsletters

बाराबंकी, 12 अगस्तमासः (हि.स.)। तिरङ्गध्वजः देशस्य मानस्य गौरवस्य च प्रतीकः अस्ति। स्वातन्त्र्यदिवसस्य अवसरे तिरङ्गायात्रायाः मुख्योद्देश्यं युवासु राष्ट्रप्रेम्णः राष्ट्रियैकतायाः च भावनां सुदृढां कर्तुम् अस्ति।
एतानि वचनानि पूर्वभाजपाविधायकः शरदकुमारअवस्थी तिरङ्गायात्रायां सम्मिलितेभ्यः छात्रेभ्यः छात्राभ्यश्च युवभ्यश्च स्वसम्बोधने उक्तवान्। पूर्वविधायकः अवस्थी अवदत् यत् स्वातन्त्र्यार्थं बलिदानं दत्तवद्भ्यः जनभ्यः स्मरणं कर्तुं वयं विशेषतया प्रयत्नशीलाः भवेम। नगरपञ्चायत् रामनगरे बुधवासरे स्वातन्त्र्यदिवसस्य पूर्वं तिरङ्गायात्रा आयोजिता।
अस्यां यात्रायां छात्राः छात्राश्च, शिक्षकाः, भाजपाकार्यकर्तारश्च हस्तेषु तिरङ्गध्वजं गृहीत्वा “वन्दे मातरम्”, “भारतमाता की जय” इति घोषैः सह पञ्चमुखीहनुमानमन्दिरात् पूर्वविधायकस्य शरदकुमारअवस्थिनः नेतृत्वे सम्पूर्णनगरस्य भ्रमणं कृत्वा बुढ़वलचतुष्पथे स्थिते यूनियन-इण्टर-कॉलेजे समाप्तिं प्राप्तवन्तः।
यात्रायां भाजपानेता सुधीरकुमारसिंहः सहितं पीजी-महाविद्यालयस्य यूनियन-इण्टर-कॉलेजस्य च बहुसंख्याकाः शिक्षकाः छात्राः छात्राश्च तथा बहवः भाजपाकार्यकर्तारः भागं गृहीतवन्तः। तिरङ्गायात्रायाः समये स्थानीयपुलिसप्रशासनस्य विशेषसहयोगः प्राप्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani