जल जीवन मिशन-मध्ये 92.46 प्रतिशतं कार्यं पूर्णं, शेष योजनाः समयेन पूर्णं कर्तुं निर्देशः
देहरादूनम्, 12 अगस्तमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे देहरादूनस्थिते सचिवालये जलजीवनमिशनस्य प्रगतिम् उपविष्टः समीक्ष्य अवशिष्टयोजनाः निर्धारितसमयसीमायां पूर्णाः कर्तुं निर्देशान् प्रदत्तवान्। सः अवदत् यत् प्रत्येकं गृहं प्रति नियमित
मुख्यमंत्री पुष्कर सिंह धामी बैठक करते हुए।


देहरादूनम्, 12 अगस्तमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे देहरादूनस्थिते सचिवालये जलजीवनमिशनस्य प्रगतिम् उपविष्टः समीक्ष्य अवशिष्टयोजनाः निर्धारितसमयसीमायां पूर्णाः कर्तुं निर्देशान् प्रदत्तवान्। सः अवदत् यत् प्रत्येकं गृहं प्रति नियमितं पर्याप्तं सुरक्षितं गुणवत्तापूर्णं च पेयजलं प्रापयितुं सुनिश्चितं करणं सर्वकारस्य प्राथमिकता अस्ति।

उपवेशने सूचितं यत् राज्ये जलजीवनमिशनस्य अन्तर्गतं १६५५५ योजनासु १५५४० योजनाः पूर्णाः जाताः तथा राज्यस्य औसतप्रगतिः ९२.४६ प्रतिशतं वर्तते। सम्प्रति १०१५ योजनाः प्रगतिपथे सन्ति।

मुख्यमन्त्रिणा अवशिष्टानां पात्रग्रामीणपरिवाराणां निर्धारितसमयसीमायां नलसंयोजनेन सह संयोजनस्य निर्देशः प्रदत्तः। सः अवदत् यत् मिशनस्य सफलता केवलं नलसंयोजनप्रदानेन न, अपितु गृहेषु नियमितपेयजलापूर्तेः सुनिश्चिततया निर्धारिता भविष्यति। पूर्णासु योजनासु स्थलीयपरीक्षणं कारयितुं अपि निर्देशः प्रदत्तः।

ग्रामीणपरिवारेभ्यः नलद्वारा जलस्य उपलब्धतायाः समीक्षायां सूचितं यत् राज्यस्य १४.४८ लक्षग्रामीणपरिवारेषु १४.२० लक्षपरिवाराणां नलसंयोजनं कृतम् अस्ति। अपरतः १४९७९ ग्रामेषु ९७९६ ग्रामेषु प्रत्येकं नले जलस्य उपलब्धतायाः सत्यापनकार्यं पूर्णं जातम् अस्ति।

धामिना निर्माणाधीनाः लम्बिताश्च योजनाः मिशनरूपेण शीघ्रं पूर्णाः कर्तुं तथा जिलाधिकारिभ्यः सम्बन्धितविभागैः सह समन्वयं कृत्वा समस्याः शीघ्रं समाधातुं निर्देशः प्रदत्तः। योजनानां भौतिकवित्तीयप्रगतिश्च नियमितरूपेण समीक्षितुं निर्देशोऽपि दत्तः।

मुख्यमन्त्रिणा पर्वतीयक्षेत्रेषु पेयजलस्रोतसां संरक्षणस्य पुनर्जीवीकरणस्य च, वर्षाजलसञ्चयनस्य, जलस्रोतसां पुनर्भरणस्य च विषये विशेषं ध्यानं दातुं कथितम्। प्रत्येकस्मिन् जनपदे प्राविधिकसमस्यानां शीघ्रसमाधानाय व्यवस्था विकसितुं तथा पूर्णासु योजनासु नियमितसञ्चालनस्य अनुरक्षणस्य च स्थायीव्यवस्था सुनिश्चितं कर्तुं निर्देशः प्रदत्तः।

तेन जनपदानुसारं लक्ष्यं, समयसीमा, उत्तरदायित्वं च निर्धारितुं कथितम्। अनावश्यकविलम्बः यदि दृश्यते तर्हि सम्बन्धितकार्यदायीसंस्थायाः उत्तरदायिनां च अधिकारिणां उत्तरदायित्वं निर्धारितुं निर्देशोऽपि प्रदत्तः।

उपवेशने अवस्थापनानुश्रवणपरिषदः उपाध्यक्षः विश्वासडाबरः, प्रमुखसचिवः आर.के.सुधांशुः, पेयजलसचिवः रणवीरसिंहचौहानः, अपरसचिवः रोहितमीणा, झरनाकमठानः सहिताः सम्बन्धिताः अधिकारिणः उपस्थिताः आसन्।

------------

Hindusthan Samachar / Dheeraj Maithani