Enter your Email Address to subscribe to our newsletters



गेड़ी, बिल्लस, गोटी अथ बाटी इव पारंपरिकक्रीडाःनिवर्तितानि ग्रामस्य स्मरणानि
रायपुरम्, 12 अगस्तमासः (हि.स.)।
छत्तीसगढस्य लोकपरम्पराणां, कृषिसंस्कृतेः ग्रामीणजीवनस्य च आत्मस्वरूपं मन्यमानस्य प्रथमपर्वणः हरेली इत्यस्य भव्यः सांस्कृतिकगरिमायुक्तश्च समारोहः बुधवासरे नयरायपुरस्थिते मुख्यमन्त्रिनिवासे उत्साहपूर्वकं सम्पन्नः। आयोजनेन राजधानीमध्ये छत्तीसगढस्य ग्रामाणां मृत्तिकासौरभं पारम्परिकजीवनशैली च साक्षात्कृता।
मुख्यमन्त्रिनिवासपरिसरः नीमवृक्षस्य आम्रवृक्षस्य च पत्रैः, मल्लिकापुष्पैः तथा पारम्परिकग्रामीणसज्जया विशेषरूपेण सज्जितः आसीत्। प्रवेशद्वारात् आरभ्य मुख्यपरिसरपर्यन्तं छत्तीसगढस्य संस्कृतेः झलकः दृश्यते स्म। हरितिमा, प्राकृतिकसज्जा, लोकालङ्काराश्च समग्रं वातावरणं उत्सवमयं कृतवन्तः।
हरेलीपर्वणः अवसरे छत्तीसगढस्य पारम्परिकक्रीडानां विशेषाकर्षणं दृष्टम्। गेड़ीधावनेन जनानां मध्ये रोमाञ्चः उत्साहश्च समुत्पन्नौ, तथा बिल्लस, गोटी, बाटी इत्यादयः ग्रामीणक्रीडाः बालान् युवानः वृद्धांश्च समानरूपेण स्वसमीपम् आकृष्टवन्तः। एताभिः क्रीडाभिः नवसन्ततिं छत्तीसगढस्य पारम्परिकक्रीडासंस्कृत्या परिचाययितुं सन्देशोऽपि प्रदत्तः।
आयोजने छत्तीसगढस्य पारम्परिकव्यञ्जनानां सुगन्धः सर्वत्र प्रसृता आसीत्। ठेठरी, खुरमी, बड़ा इत्यादीनां बहूनां पारम्परिकपक्वान्नानां स्वादं जनाः उत्साहपूर्वकं गृहीतवन्तः। ग्रामीणक्षेत्रेषु विशेषावसरेषु निर्मीयमाणानि एतानि व्यञ्जनानि जनानां स्वग्रामस्य पारिवारिकोत्सवानां च स्मरणं कारितवन्ति।
लोककलाकारैः छत्तीसगढस्य लोकगीतानां लोकनृत्यानां च मनोहारिण्यः प्रस्तुतयः प्रदर्शिताः, येन समग्रः समारोहः जीवन्तः अभवत्। मांदरस्य ढोलकस्य च पारम्परिकवाद्यानां तालध्वनौ कलाकाराः नृत्यन्तः दृश्यन्ते स्म। लोकधुनिषु उपस्थितजनसमूहोऽपि करताडनं कुर्वन् उत्साहेन सहभागी भवन् दृश्यते स्म। आयोजने छत्तीसगढस्य सांस्कृतिकवैविध्यस्य लोककलायाः च समृद्धपरम्परायाः प्रभावशाली प्रदर्शनं जातम्।
कार्यक्रमस्य विशेषाकर्षणेषु रहचुली इत्येषा अपि आसीत्, यस्याः आनन्दं बालकेभ्यः आरभ्य वयस्कपर्यन्तं सर्वेऽपि गृहीतवन्तः। ग्रामीणमेलानां पारम्परिकोत्सवानां च परिचायकत्वेन प्रसिद्धा रहचुली आयोजने ग्राममेलकस्येव आनन्दमयं वातावरणं निर्मितवती।
हरेलीपर्व मूलतः कृषेः प्रकृतेश्च सम्बद्धः उत्सवः अस्ति। अस्मिन् दिने कृषकाः स्वकृष्युपकरणानां पूजनं कृत्वा उत्तमसस्यसमृद्धिं समृद्धिं च कामयन्ते। मुख्यमन्त्रिनिवासे आयोजितेन अस्य कार्यक्रमेन हरेली केवलं पर्वरूपेण न, अपितु छत्तीसगढस्य लोकास्मितायाः, कृषिपरम्परायाः, सांस्कृतिकगौरवस्य च उत्सवरूपेण प्रस्तुतः।
नयरायपुरे आयोजितः अयं भव्यः समारोहः अस्य तथ्यस्य प्रतीकः अभवत् यत् छत्तीसगढः स्वस्य आधुनिकविकासयात्रया सह स्वलोकसंस्कृतेः, पारम्परिकक्रीडानां, खानपानस्य, ग्रामीणविरासतस्य च समानरूपेण सम्मानं संरक्षणं च करोति। हरेलीमहोत्सवेन राजधानीमध्ये उपस्थितानां जनानां छत्तीसगढस्य मृत्तिकया, हरितिम्ना, लोकजीवनेन च गभीरं सम्बन्धं स्थापयितुं कार्यं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani