उपराष्ट्रपतिः सांसदैः सह विशेषबाइकयात्रायाः शुभारम्भं कृतवान्
नवदिल्ली, १२ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य उपलक्ष्ये प्रचलितस्य ‘हर घर तिरङ्गा २०२६’ अभियानस्य अन्तर्गतं उपराष्ट्रपतिः सी. पी. राधाकृष्णनः बुधवासरे सांसदैः सह विशेषबाइकयात्रायाः हरितध्वजं प्रदर्श्य शुभारम्भं कृतवान्। संस्कृतिमन्त्रालयेन आय
तिरंगा बाइक रैली को हरी झंडी दिखाते उपराष्ट्रपति सी पी राधाकृष्णन


बाइक रैली में भाग लेते हुए केंद्रीय मंत्री किरेन रिजीजू


नवदिल्ली, १२ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य उपलक्ष्ये प्रचलितस्य ‘हर घर तिरङ्गा २०२६’ अभियानस्य अन्तर्गतं उपराष्ट्रपतिः सी. पी. राधाकृष्णनः बुधवासरे सांसदैः सह विशेषबाइकयात्रायाः हरितध्वजं प्रदर्श्य शुभारम्भं कृतवान्। संस्कृतिमन्त्रालयेन आयोजितेयं यात्रा राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य १५०तमवर्षस्य उपलक्ष्ये आयोजिता।

यात्रायां केन्द्रीयमन्त्रिणः किरेण रिजिजू, राजीव रञ्जनसिंहः, गजेन्द्रसिंहशेखावतः, वीरेन्द्रकुमारः, जी. किशनरेड्डी, जितेन्द्रसिंहः इत्यादयः बहवः सांसदाः अन्ये च गणमान्यजनाः सम्मिलिताः।

अस्मिन् अवसरे देशवासिभ्यः ‘हर घर तिरङ्गा’ अभियानस्य अन्तर्गतं वर्धमानरूपेण भागं ग्रहीतुं तथा स्वातन्त्र्य-दिवसस्य अवसरे स्वगृहेषु त्रिरङ्गं ध्वजं च उत्क्षिप्य राष्ट्रं प्रति सम्मानस्य एकतायाश्च सन्देशं दातुम् आह्वानं कृतम्।

कार्यक्रमं सम्बोधयन् उपराष्ट्रपतिः राधाकृष्णनः अवदत् यत् ‘वन्दे मातरम्’ भारतस्य स्वातन्त्र्यसङ्ग्रामे जनानां हृदयेषु देशभक्तेः भावनां जागरयित्री सर्वाधिक-प्रेरणा अभवत्। सः अवदत् यत् स्वातन्त्र्यसङ्ग्रामेन भाषायाः, प्रदेशस्य, धर्मस्य च सीमाः अतिक्रम्य सम्पूर्णं देशम् एकसूत्रेण बद्धम्, ‘वन्दे मातरम्’ च अस्याः राष्ट्रीयचेतनायाः सर्वाधिकं शक्तिशाली प्रतीकम् अभवत्।

सः अद्यतनकाले अण्डमान-निकोबार-द्वीपसमूहे श्रीविजयपुरम्नगरे स्थिते ध्वजस्थले त्रिरङ्गं ध्वजम् आरोप्य ‘हर घर तिरङ्गा’ अभियानस्य शुभारम्भस्य उल्लेखमपि कृतवान्। सः अवदत् यत् एतत् एव तत् ऐतिहासिकं स्थलम् अस्ति, यत्र सुभाषचन्द्रबोसः ३० दिसम्बर १९४३ तमे वर्षे तिरङ्गं ध्वजम् आरोह्य अण्डमान-निकोबारद्वीपसमूहं ब्रिटिशशासनात् मुक्तं घोषितवान् आसीत्।

यात्रायां सम्मिलिताः सांसदाः युवकाश्च हस्तेषु त्रिरङ्गं ध्वजं धृत्वा देशस्य एकतायाः, अखण्डतायाः राष्ट्रनिर्माणं च प्रति स्वप्रतिबद्धतां पुनः प्रकटितवन्तः।भाजपासांसदा बाँसुरीस्वराजः अवदत् यत् त्रिरङ्गः केवलं राष्ट्रध्वजः नास्ति, अपितु एकशतचत्वारिंशत्कोटिभारतीयानां सङ्कल्पानाम्, आकाङ्क्षाणां स्वप्नानां च प्रतीकम् अस्ति। सा अवदत् यत् एषा यात्रा स्वातन्त्र्यसेनानीनां बलिदानाय नमनं कर्तुं सह देशस्य नववंशस्य उज्ज्वल-भविष्यस्य उत्सवः अपि अस्ति।

Hindusthan Samachar / Divya Ranjan