Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अगस्तमासः (हि.स.)। विश्वगजदिवसस्य अवसरे बुधवासरे प्रधानमन्त्री नरेन्द्रमोदी गजं भारतस्य पारिस्थितिकपरम्परायाः अभिन्नम् अङ्गं वर्णयन् देशस्य सुदृढान् संरक्षणप्रयत्नान् रेखाङ्कितवान्। सः अवदत् यत् विश्वस्य षष्टिप्रतिशतादधिकाः वन्य-एशियाईगजाः भारते प्राप्यन्ते।
प्रधानमन्त्री अवदत् यत् देशे त्रयस्त्रिंशत् गजाभयारण्याणि सन्ति, यानि गजेभ्यः सुरक्षितम् आवासं प्रददति, तेषां दीर्घ-कालिकसंरक्षणस्य प्रयत्नान् च सुदृढीकुर्वन्ति।
मोदी गजरक्षणस्य प्रयत्नेषु योगदानं ददतां वनकर्मचारिणां, वैज्ञानिकानां, पशु-चिकित्सकानां, महावतां तथा स्थानीय-समुदायान् प्रति गौरवं कृतज्ञतां च प्रकटितवान्।
प्रधानमन्त्री सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे अवदत् यत् विश्वगजदिवसे वयं तस्य विशालकायस्य गौरवशालिनः गजस्य उत्सवं कुर्मः, यः भारतस्य पारिस्थितिकपरम्परायाः अभिन्नः अङ्गः अस्ति। सः अवदत् यत् एषः हर्षस्य विषयः अस्ति यत् भारतदेशः विश्वस्य षष्टिप्रतिशतादधिकानां वन्य-एशियाई-गजानां निवासस्थानम् अस्ति।
सः अवदत् यत् देशस्य त्रयस्त्रिंशत् गजाभयारण्याणि गजेभ्यः आवासं प्रददति तथा तेषां दीर्घकालिकसंरक्षणस्य दिशि क्रियमाणान् प्रयत्नान् सुदृढीकुर्वन्ति। प्रधानमन्त्री संरक्षणकार्ये संलग्नानां सर्वेषां वनकर्मचारिणां, वैज्ञानिकानां, पशु-चिकित्सकानां, महावतां तथा स्थानीयसमुदायानां भूमिकायाः अपि प्रशंसां कृतवान्।
Hindusthan Samachar / Divya Ranjan