Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 12 अगस्तमासः (हि.स.)। संसदीयकार्यस्य, विधेः विधिककार्यस्य च मन्त्री जोगारामपटेलः बुधवासरे पालमार्गस्थिते लूणीविधायकस्य जनसुनवाईकेन्द्रे जनसामान्यस्य परिवेदनाः श्रुतवान् तथा सम्बद्धविभागीयाधिकारिभ्यः आवश्यककार्यवाहीं कृत्वा शीघ्रं समाधानं सुनिश्चितं कर्तुं निर्देशान् प्रदत्तवान्।
अस्मिन् अवसरे पटेलः अवदत् यत् मुख्यमन्त्री भजनलालशर्मणः संवेदनशीलनेतृत्वे प्रदेशसर्वकारः अन्त्योदयस्य सङ्कल्पं साकारयितुं प्रतिबद्धः अस्ति। अस्यैव दिशि निरन्तरं जनसुनवाईमाध्यमेन जनसामान्यस्य समस्याः समाधानं सुनिश्चितं क्रियते। सः अवदत् यत् ग्रामीणनगरीयसेवाशिबिराणां माध्यमेन जनकल्याणकारीयोजनाभिः समाजस्य अन्तिमः जनः अपि संयोज्यते।
पटेलः विभागीयाधिकारिभ्यः निर्देशं दत्त्वा अवदत् यत् जनसामान्यस्य समस्याः परिवेदनाश्च प्राथमिकतायाः आधारेण निराकरणीयाः। सः अवदत् यत् अधिकारिभिः जनसेवाभावनया कार्यं कुर्वद्भिः पारदर्शितया, संवेदनशीलतया उत्तरदायित्वभावनया च कार्यं करणीयम्। शिकायतानां समाधानस्य विषये प्रमादः उदासीनता वा सुशासनस्य अवधारणां दुर्बलीकरोति। अतः आवश्यकम् अस्ति यत् प्रत्येकं अधिकारी स्वस्तरे उत्तरदायित्वं सुनिश्चितं कुर्यात् तथा नागरिकेभ्यः राहतिप्रदाने सक्रियां भूमिकां निर्वहेत्।
पटेलः अवदत् यत् राज्यसर्वकारस्य उद्देश्यम् केवलं योजनानां क्रियान्वयनं नास्ति, अपितु समाजस्य अन्तिमजनं यावत् रक्षणं प्राप्नुयात् इति अस्ति। सः अवदत् यत् जनसुनवाईसदृशाः व्यवस्थाः लोकतन्त्रस्य आधारं सुदृढीकुर्वन्ति तथा नागरिकान् सशक्तान् कुर्वन्ति।
अस्मिन् अवसरे जिलापरिषदः सदस्यः चैनारामपटेलः, पूर्वप्रधानः भगवतीसांखला, राकेशबिश्नोई, भल्लारामपटेलः, खींवराजजाङ्गिडः, जितेन्द्रसिंहभाण्डू, सवाईसिंहः इत्यादयः जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani