तिरंगातो राष्ट्रगौरवस्य भावना भवति सुदृढा : प्रो. बत्राः
हरिद्वारम्, 12 अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य उपलक्ष्ये देशभक्तेः राष्ट्रियैकतायाः च भावनां प्रोत्साहयितुं हरिद्वारस्य एस.एम.जे.एन. स्नातकोत्तरमहाविद्यालये ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं तिरङ्गप्रेरितचित्रकलाप्रतियोगिता आयोजिता। प्रति
पेंटिंग प्रतियोगिता में विजयी छात्राएं


हरिद्वारम्, 12 अगस्तमासः (हि.स.)।

स्वातन्त्र्यदिवसस्य उपलक्ष्ये देशभक्तेः राष्ट्रियैकतायाः च भावनां प्रोत्साहयितुं हरिद्वारस्य एस.एम.जे.एन. स्नातकोत्तरमहाविद्यालये ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं तिरङ्गप्रेरितचित्रकलाप्रतियोगिता आयोजिता। प्रतियोगितायाः आयोजनं महाविद्यालयस्य आन्तरिकगुणवत्तानिश्चयप्रकोष्ठस्य, पर्यावरणप्रकोष्ठस्य, राष्ट्रियसेवायोजनायाः एककस्य, विधिसहायताप्रकोष्ठस्य, मादकद्रव्यविरोधिप्रकोष्ठस्य तथा मानकक्लबस्य संयुक्ततत्त्वावधानेन कृतम्।

प्रतियोगितायां महाविद्यालयस्य छात्राः छात्राश्च उत्साहपूर्वकं भागं गृहीत्वा स्वस्य सृजनात्मकतां कलात्मकप्रतिभां च प्रदर्शितवन्तः। विद्यार्थिभिः तिरङ्गस्य वर्णान् राष्ट्रियभावनां च केन्द्रे निधाय आकर्षकाः भित्तिचित्राः चित्रफलकानि च निर्मितानि। तेषां कलाकृतिषु देशप्रेम, राष्ट्रियगौरवम्, स्वातन्त्र्यसङ्ग्रामस्य वीराणां प्रति सम्मानः तथा राष्ट्रस्य एकतायाः अखण्डतायाश्च भावना प्रभावशालिरूपेण दृश्यते स्म।

अस्मिन् अवसरे महाविद्यालयस्य प्राचार्यः प्रोफेसर् डॉ. सुनीलकुमारबत्रा विद्यार्थिनां सृजनात्मकप्रतिभायाः प्रशंसां कुर्वन् अवदत् यत् ‘हर घर तिरंगा’ अभियानं केवलं तिरङ्गध्वजस्य आरोहणपर्यन्तं सीमितं नास्ति, अपितु प्रत्येकस्य नागरिकस्य मनसि राष्ट्रप्रेम्णः, राष्ट्रियगौरवस्य, देशस्य प्रति उत्तरदायित्वभावनायाश्च सुदृढीकरणस्य माध्यमम् अस्ति। तेन उक्तं यत् विद्यार्थिभिः कलामाध्यमेन तिरङ्गस्य प्रति स्वभावनानां अभिव्यक्तिः अस्य अभियानस्य महत्त्वं वर्धयति। एतादृश्यः गतिविधयः युवासु देशभक्त्या सह सृजनात्मकतायाः सामाजिकउत्तरदायित्वस्य च भावनां विकसितुं सहायकाः भवन्ति।

छात्रकल्याणाधिष्ठाता डॉ. सञ्जयकुमारमाहेश्वरी अवदत् यत् तिरङ्गध्वजः अस्माकं स्वातन्त्र्यस्य, सार्वभौमत्वस्य, राष्ट्रियैकतायाश्च प्रतीकः अस्ति। यदा युवासन्ततिः तिरङ्गध्वजं स्वकलया स्वविचारैश्च संयोजयति, तदा राष्ट्रेण सह तेषां गभीरसम्बन्धः अभिव्यज्यते। राजनीतिशास्त्रविभागाध्यक्षः प्रो. विनयथपलियालः तथा सहछात्रकल्याणाधिष्ठाता डॉ. शिवकुमारचौहानः अपि स्वस्वविचारान् प्रस्तुतवन्तौ।

सोनम-स्नेहाभ्यां प्रथमस्थानं प्राप्तम्

चित्रकलाप्रतियोगितायां विज्ञानस्नातकस्य छात्रा सोनम पालीवालः तथा कलास्नातकस्य छात्रा स्नेहा च संयुक्तरूपेण प्रथमस्थानं प्राप्तवत्यौ। द्वितीयपुरस्कारः संयुक्तरूपेण कलास्नातकस्य छात्रायै प्रिया रघुवंशिन्यै वाणिज्यस्नातकस्य छात्रायै शीतलायै च प्रदत्तः। तृतीयपुरस्कारः वाणिज्यस्नातकस्य छात्रायै दीक्षा रावतायै, कलास्नातकस्य छात्रायै प्रिन्सी राजपूतायै तथा विज्ञानस्नातकस्य छात्रायै मीनाक्ष्यै च संयुक्तरूपेण प्रदत्तः। अपरतः खुशी रावत, यासमीन तथा कशिश सैनी इत्येताभ्यः सान्त्वनापुरस्कारः प्रदत्तः।

प्रतियोगितायां निर्णायकमण्डलस्य दायित्वं मनोज सहगलः, अमितकुमारः तथा श्रीमती सोनलः निर्वहितवन्तः। संयोजकमण्डले डॉ. सञ्जयकुमारमाहेश्वरी, डॉ. पल्लवी तथा डॉ. मिनाक्षीशर्मा च सम्मिलिताः आसन्। अस्मिन् अवसरे प्रो. जे.सी. आर्यः, डॉ. मनोज सोही, डॉ. विजय शर्मा, वैभव बत्रा, डॉ. पूर्णिमा सुन्दरियाल, डॉ. मोना शर्मा, विनीत सक्सेना, कार्यालयाधीक्षकः मोहनचन्द्रपाण्डेयः सहिताः बहवः छात्राः छात्राश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani