केरले ‘वन्देमातरम्’-गायनात् परिहारः! दक्षिणभारतस्य स्वकीयम् इतिहासं पश्यतु...
— डॉ. मयङ्क-चतुर्वेदी केरले ‘वन्देमातरम्’ इत्यस्य पूर्णगायनं प्रति यत् प्रकारस्य आपत्तिः प्रकटिता, तया एकः सामान्यः प्रशासनिकनिर्देशः गम्भीरं राष्ट्रियविमर्शविषयं जातः। प्रश्नः अस्ति—किं भारतस्य स्वातन्त्र्यसङ्ग्रामस्य राष्ट्रियस्मृतिः अपि राज्यान
डॉ मयंक चतुर्वेदी


— डॉ. मयङ्क-चतुर्वेदी

केरले ‘वन्देमातरम्’ इत्यस्य पूर्णगायनं प्रति यत् प्रकारस्य आपत्तिः प्रकटिता, तया एकः सामान्यः प्रशासनिकनिर्देशः गम्भीरं राष्ट्रियविमर्शविषयं जातः। प्रश्नः अस्ति—किं भारतस्य स्वातन्त्र्यसङ्ग्रामस्य राष्ट्रियस्मृतिः अपि राज्यानां, दलानां राजनैतिकसुविधानां च सीमासु विभक्तुं शक्यते? केरलसर्वकारस्य पक्षतः उक्तं यत् सर्वकारीयकार्यक्रमेषु पूर्वपरम्परानुसारं ‘वन्देमातरम्’ इत्यस्य प्रारम्भिकौ द्वौ श्लोकौ एव गास्येते।

काङ्ग्रेससांसदः राजमोहन-उन्नीथनः ततोऽपि अग्रे गत्वा सम्पूर्णस्य गीतस्य गायनस्य तीव्रं विरोधं कृतवान्। अपरतः केन्द्रसर्वकारः १५० वर्षाणां पूर्त्यवसरे देशव्यापिरूपेण अस्य सामूहिकगायने बलं ददाति। एतस्मिन्नेव काले तमिलनाडु-विधानसभया राज्यस्य सार्वजनिक-कार्यक्रमेषु प्रारम्भे ‘तमिल्-ताय्-वाझ्थु’ इति गीतस्य गायनस्य प्रस्तावः पारितः।

अत्र एका महत्त्वपूर्णा वस्तु स्पष्टतया अवगन्तव्या। कस्यापि राज्यस्य स्वभाषायाः, संस्कृतेः परम्परायाश्च विषये गौरवं कर्तुं पूर्णाधिकारः अस्ति। तमिलभाषायै सम्मानं भवेत्, मलयालम-भाषायै सम्मानं भवेत्, कन्नड-तेलुगु-कोङ्कणीभाषाभ्यः तथा सर्वाभ्यः भारतीयभाषाभ्यः सम्मानं भवेत्। किन्तु स्वक्षेत्रीयास्मितायाः सम्मानाय राष्ट्रीय-स्मृतितः दूरं गन्तुम् आवश्यकं नास्ति। भारतस्य सौन्दर्यमेव एतत् यत् तमिल् स्वस्थाने तमिल् अस्ति, मलयालमः स्वस्थाने मलयालमः अस्ति, किन्तु स्वातन्त्र्यस्य इतिहासः सर्वेषां सम्मिलितः अस्ति। अस्मिन् सर्वेषां सर्वस्वत्यागः समर्पणं च समाहितम् अस्ति। वस्तुतः ‘वन्देमातरम्’ अस्य सहभाग-स्वरूपस्यैव प्रकटीकरणम् अस्ति।

यदि ‘वन्देमातरम्’ उत्तरभारतीयस्य अथवा कस्यचन एकस्य राजनैतिकविचारधारायाः प्रतीकम् इति प्रतिपादयितुं प्रयत्नः क्रियेत, तर्हि तमिलनाडुस्य इतिहासः एव एतं तर्कं प्रत्यक्षतया निराकरोति। महाकविः सुब्रह्मण्यभारती (१८८२–१९२१) तमिलनाडु इत्यस्य महान् कविः, स्वातन्त्र्य-सेनानी समाजसुधारकश्च आसीत्। तेन बङ्किमचन्द्रचट्टोपाध्यायस्य अमरगीतस्य ‘वन्देमातरम्’ इत्यस्य तमिलभाषायाम् अनुवादः रूपान्तरणं च कृतम्, येन दक्षिणभारते स्वातन्त्र्य-सङ्ग्रामकाले जनानां मध्ये देशभक्तेः प्रबलभावना जागरिता। ‘कण्णन्-पट्टु:’, ‘नीलवुम्-वाण्मिनुम्-कात्रुम्’, ‘पाञ्चाली-सपथम्’, ‘कुयिल्-पट्टु:’ इत्यादीनि भारतेः काव्यसृजनस्य उदाहरणानि सन्ति।

भारती देशभक्तिपूर्णानां बहूनां कवितानां कारणेन राष्ट्रकविरिति मन्यते। तैः कविताभिः सः जनान् स्वातन्त्र्यसङ्ग्रामे सम्मिलितुं देशस्य मुक्तये च सक्रियतया कार्यं कर्तुं प्रेरितवान्। स्वदेशे गौरवं कुर्वन् सः स्वतन्त्रभारतस्य स्वदृष्टिकोणमपि स्पष्टतया प्रकटितवान्। सः १९०८ तमे वर्षे प्रसिद्धं ‘स्वदेशगीताङ्गल्’ इति ग्रन्थं प्रकाशितवान्।

भारतसर्वकारस्य ‘आजादी का अमृत महोत्सव’ इत्यस्य पटलेऽपि उल्लिखितम् अस्ति यत् भारतेः कृतिभिः मद्रासक्षेत्रे स्वदेशी-आन्दोलनस्य जनमतनिर्माण-प्रक्रियायां महत्त्वपूर्णा भूमिका निर्व्यूढा। तस्य एकस्मिन् कार्टून इत्यस्मिन् ‘वन्देमातरम्’ ध्वजस्य चित्रणमपि आसीत्। विषयः अत्रैव न समाप्तः। सुब्रह्मण्यभारतेः प्रकाशितेषु काव्यसङ्कलनेषु ‘वन्देमातरम्’ स्वतन्त्र-रचनारूपेण उल्लिखितम् अस्ति। १९७७ तमे वर्षे साहित्य-अकादम्या प्रकाशिते ‘पोम्स आफ सुब्रह्मण्यभारती’ इत्यस्मिन् ‘वन्देमातरम्’ अन्तर्भूतम् अस्ति; १९८४ तमे वर्षे प्रकाशिते ‘सुब्रह्मण्यभारती : चूजन पोम्स एण्ड प्रोज़’ इत्यस्मिन्नपि अस्य स्पष्टं स्थानम् अस्ति। अर्थात् यं दक्षिणभारतं अद्य ‘वन्देमातरम्’ इत्यस्य सन्दर्भे राजनैतिकदूरत्वरूपेण प्रस्तुत्यते, तस्यैव दक्षिणभारतस्य एकः महान् राष्ट्रवादी कविः एतत् स्वसाहित्यस्य स्वातन्त्र्यचेतनायाश्च भागरूपेण स्वी-कृतवान् आसीत्।

तमिलनाडु इत्यस्य स्वातन्त्र्यसङ्ग्रामस्य इतिहाससम्बद्धम् एकं सर्वकारीयं तथ्यं विषयमधिकं स्पष्टं करोति। तत्र उल्लिखितम् अस्ति यत् भारतेः 'स्वदेश गीतांगल’ इत्यस्मिन् ‘वन्देमातरम्’ प्रथमं राष्ट्रगीतं आसीत् तथा स्वातन्त्र्यसेनानीनां प्रेरणायै महान् उद्घोषः आसीत्। दस्तावेजे इदमपि उल्लिखितम् अस्ति यत् भारतेः गीतानि अशिक्षितजनतायां राष्ट्रियभावनां प्रसारयितुं माध्यमानि अभवन् तथा जनाः तानि गीत्वा श्रावयन्ति स्म। तर्हि अद्य प्रश्नः अस्ति—‘वन्देमातरम्’ दक्षिणभारतस्य कथं न अभवत्? किं तमिलनाडुस्य महाकविः भारती एतं इतिहासं न जानाति स्म? किं स्वातन्त्र्यसङ्ग्रामकाले मद्रासभूमौ उद्भूतः ‘वन्देमातरम्’ इत्यस्य स्वरः अद्य विस्मर्तव्यः? किं कस्यचित् राष्ट्रगीतस्य स्वीकार्यता तेन निर्णीयते यत् अद्य क: राजनैतिकपक्ष: तत् स्वकार्यक्रमे गायति?

भारतेः स्पष्टं मतम् आसीत्—यत् तस्य साहित्यलेखनेषु अनेकस्थलेषु प्रकटितमपि अस्ति—“यावत् भारतीयाः भारतमातुः सन्तानरूपेण एकीभूताः न भविष्यन्ति, तावत् तेभ्यः स्वातन्त्र्यं प्राप्तुं न शक्यते।” अद्य अस्माकं देशस्य दुर्भाग्यमेव कथयितव्यं यत् वयं सर्वे स्वस्य राष्ट्रस्य भारतमातुश्च वन्दनायै ‘वन्देमातरम्’ इति एकमतेन एकस्वरेण च वक्तुं न शक्नुमः। अस्माकं क्षेत्रीयाः मतलाभसम्बद्धाः स्वार्थाः एतावन्तः बृहन्तः सन्ति यत् यस्याः मातुः आराधनात् वयं जीवनं प्राप्य अन्ते तस्यामेव विलीयामहे, तस्याः आराधनात् अपि वयं पश्चाद्गच्छामः!

‘वन्देमातरम्’ इति गीतं बङ्गाले जातम्, किन्तु तस्य यात्रा बङ्गालपर्यन्तं न स्थिता। तत् तमिलभाषायां प्राप्तम्, तेलुगुभाषायां प्राप्तम्, कन्नडभाषायां प्राप्तम्, मलयालमभाषायां प्राप्तम्, हिन्दीभाषायां तथा अन्यासु भारतीयभाषास्वपि प्राप्तम्। अस्य अनुवादैः रूपान्तरणैश्च तत् भारतीयभाषाणां साझा-राष्ट्रियचेतनायाः भागः अभवत्। अस्य तात्पर्यमेव एतत् यत् ‘वन्देमातरम्’ कस्यापि भौगोलिकप्रदेशस्य सीमायां कदापि बद्धं सीमितं वा गीतं नासीत्। भारतीयराष्ट्रवादस्य विस्तारस्य सहैव तत् सम्पूर्णे देशे सञ्चरितम्।

एवमेव तैः जनैः अवगन्तव्यं ये अद्य ‘वन्देमातरम्’ इत्येतत् कस्यचित् एकस्य राजनैतिकदलस्य प्रतीकम् इति प्रतिपाद्य तस्मात् दूरं गन्तुं प्रयतन्ते। ‘वन्देमातरम्’ भारतीयजनतापार्टी इत्यस्य उत्पत्तेः दशकेभ्यः पूर्वमेव भारतीय-स्वातन्त्र्य-सङ्ग्रामस्य उद्घोषः आसीत्। काङ्ग्रेसस्य अधिवेशनेषु अस्य स्थानमासीत्। १८९६ तमे वर्षे काङ्ग्रेसस्य अधिवेशने रवीन्द्र-नाथठाकुरेण तत् गीतम्। १९०५ तमे वर्षे स्वदेशी-आन्दोलने तत् राजनैतिक-उद्घोषरूपेण प्रतिष्ठितम् आसीत्। १९५० तमे वर्षे संविधानसभया ‘जनगणमन’ इत्यनेन सह समानसम्मानेन राष्ट्रगीतत्वेन स्वीकृतम्।

वस्तुतः अद्य यदि कश्चित् काङ्ग्रेसनेता वदति यत् सम्पूर्णगीतस्य गायने त्रि-निमेष-दश निमेष-कालः भवति तथा च तावत्कालं स्थातुं व्यावहारिककठिनता भवितुम् अर्हति, तर्हि तस्मिन् तर्के चर्चा भवितुं शक्नोति। सम्मानः विधिना न जायते—इति कथनं सम्यक्। कस्यचित् नागरिकस्य हृदये देशभक्तिः आदेशेन न पूरयितुं शक्यते—इदमपि सत्यम्। किन्तु किं कस्यचित् राष्ट्रगीतस्य सम्मानं तस्य कालावधिना मापितुम् उचितम्? किं त्रिमिनिट्-दश-सेकण्ड्-कालः राष्ट्रस्य स्मृतेः पुरतः एतावान् दीर्घः समयः अस्ति यत् तं प्रति असहजता उत्पद्येत? किं वयं भारतमातुः राष्ट्रभारतस्य च आराधनायै त्रिमिनिट्-दश-सेकण्ड्-कालमपि न स्थातुं शक्नुमः, येन तस्मै सम्मानं दद्मः?

सत्यमेव एतत् यत् यस्य भारतस्य स्वातन्त्र्यसेनानिनः वर्षाणि कारागारेषु स्थितवन्तः, येषां सम्पत्तिः नष्टा, येषां सेवाः अपहृताः, येषां कुटुम्बेभ्यः दूरत्वं सह्यं जातम्, ये च स्वजीवनमपि राष्ट्रस्य नाम्नि समर्पितवन्तः—तेषां पुरतः त्रि-निमेष-दश-निमेष इति तर्कः अत्यल्पः दृश्यते। अत्रैव ‘वन्देमातरम्’ इत्यस्य वास्तविकशक्तिः अवगन्तव्या।

इदं गीतं तस्मिन् काले लिखितम् आसीत् यदा भारतः स्वतन्त्रः नासीत्। तस्मिन् समये कस्यापि भारतीयस्य समीपे राष्ट्रीयसम्मानस्य, राष्ट्रीयपरिचयस्य, देशभक्तेश्च विषये सुखेन उपविश्य चर्चां कर्तुं सुविधा नासीत्। औपनिवेशिकशासनस्य कठोरतायाः मध्ये राष्ट्रीयचेतनां जागरयितुमेव स्वयमेव प्रतिरोधः आसीत्। ‘वन्देमातरम्’ एतस्य प्रतिरोधस्य भाषारूपम् अभवत्।

केरलस्य राजनीतौ ‘वन्देमातरम्’ इत्यस्य विरोधं कुर्वद्भ्यः प्रश्नः पृष्टव्यः—किं राज्यस्य क्षेत्रीयास्मिता भारतस्य राष्ट्रियास्मितया सह परस्परविरोधिनी अस्ति? यदि उत्तरं नास्ति, तर्हि समस्या कुत्र अस्ति? केरलः स्वभाषायां संस्कृतौ च गौरवं करोतु, किन्तु केरलस्य तान् स्वातन्त्र्यसेनानीनः अपि स्मरतु, येषां भारतीयस्वातन्त्र्याय संघर्षः आसीत्। तमिलनाडुः स्वस्य तमिलपरिचये गौरवं करोतु, किन्तु सी. सुब्रह्मण्यम्-भरतियारम् अपि स्मरतु, येन तमिलभाषायां ‘भारतमाता’ इत्यस्य स्वातन्त्र्यस्य गीतं गायतम्। एतदेव भारतीयत्वम्।

वस्तुतः ‘वन्देमातरम्’ इत्यस्य महत्तमा शक्तिः एषैव यत् तत् क्षेत्रीयसीमाः अतिक्रामति। बङ्गालस्य बङ्किमचन्द्रस्य रचना तमिलनाडुस्य भारतेः स्वरः भवति। उत्तरभारतस्य स्वातन्त्र्यसङ्ग्रामे प्रतिध्वनति। दक्षिणस्य आन्दोलनेषु प्राप्नोति। काङ्ग्रेसस्य मञ्चे श्रूयते। क्रान्तिकारिणां मध्ये उद्घोषो भवति तथा अन्ततः स्वतन्त्रभारतस्य संविधानसभा तम् राष्ट्रगीतत्वेन सम्मानयति।

२०२६ तमे वर्षे अस्य १५० वर्षाणां पूर्तिः अतः महत्त्वपूर्णा अस्ति यत् सा अस्मान् स्वकीयम् इतिहासं पुनः पठितुं अवसरं ददाति। ७ नवम्बर १८७५ तमे वर्षे अस्य रचना प्रथमवारं ‘बङ्गदर्शन’ इत्यस्मिन् प्रकाशिताभवत्। अनन्तरं तत् बङ्किमचन्द्रस्य ‘आनन्दमठ’ इत्यस्मिन् समाविष्टम् अभवत् तथा १८९६ तमवर्षस्य काङ्ग्रेस-अधिवेशनात् आरभ्य स्वदेशी-आन्दोलनपर्यन्तं तस्य यात्रया तत् राष्ट्रीयचेतनायाः शक्तिशाली प्रतीकम् अभवत्। अधुना प्रश्नः नास्ति यत् सम्पूर्णगीतस्य कालावधिः कियान् अस्ति। प्रश्नः अस्ति—किं वयं १५० वर्षाणां अस्य यात्रां त्रि-निमेष-दश-निमेष-कालस्य घटिकायां सङ्कुचितुं शक्नुमः?

येन गीतेन परतन्त्रभारते अनेकस्थलेषु जनानां मनसि एतत् साहसं जनितम् यत् मातृभूमिः अस्माकं सर्वोच्चपरिचयः अस्ति, तस्य पुरतः स्वतन्त्रभारते त्रि-निमेष-कालं स्थातुम् अपि यदि कस्मैचित् अतीव दीर्घं मन्यते, तर्हि समस्या सम्भवतः गीतस्य कालावधौ नास्ति। समस्या तस्य चिन्तने अस्ति, यत् नागरिकरूपेण भारताय पूर्णसमर्पणात् जनं निवारयति।

गम्भीरतया विचारयतु—येन तमिलकविना ‘वन्देमातरम्’ स्वस्य राष्ट्रवादीसाहित्ये स्थानं दत्तम्, सः अद्य अस्मिन् विमर्शे अस्माकं पुरतः स्थित्वा किं न पृच्छेत्—यं गीतं वयं स्वातन्त्र्यसङ्घर्षकाले अगायत, तत् अद्य राजनैतिकविवादस्य विषयः किमर्थं जातम्? यस्य भारतस्य दक्षिणीप्रान्ते भारती तस्य स्वरं तमिलजनमानसे प्रापितवान्, तस्यैव भारतस्य एकस्मिन् राज्ये अद्य तस्य पूर्णगायनस्य आपत्तिः किमर्थं भवेत्?

कथनीयम् यत् ‘वन्देमातरम्’ इत्यस्य सम्मानः कस्यापि दलस्य सम्मानः नास्ति। तस्य सम्मानः कस्यापि सर्वकारस्य प्रशंसा नास्ति। तस्य इतिहासस्य स्वीकरणं कस्यापि धर्मस्य पक्षे स्थितिः नास्ति। एतत् तस्य स्वातन्त्र्यसङ्ग्रामस्य स्वीकरणम् अस्ति, यस्मिन् भारतस्य विभिन्नप्रदेशानां, भाषाणां समुदायानां च जनाः स्वस्वस्वरान् संयोज्य एकं राष्ट्रीयस्वरं निर्मितवन्तः। अद्य यदा भारतः ‘विकसितभारत-२०४७’ इत्यस्य चर्चा करोति, यदा तस्य युवावंश: अन्तरिक्षे, विज्ञाने, रक्षायां, प्रौद्योगिक्यां अर्थव्यवस्थायां च नूतनानि शिखराणि स्प्रष्टुं स्वप्नं पश्यति, तदा तया एतदपि ज्ञातव्यं यत् स्वातन्त्र्यस्य आधारः कैः स्वरैः सुदृढीकृतः आसीत्। स्मर्तव्यम्! ‘वन्देमातरम्’ तेषु प्रमुखेषु स्वरेषु एकः स्वरः अस्ति।

वन्दे मातरम्।

(लेखकः हिन्दुस्थान-समाचार-संस्थया सम्बद्धः अस्ति।)

Hindusthan Samachar / Divya Ranjan