Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ अगस्तमासः (हि.स.)। लोकसभाध्यक्षः ओम बिरला तथा केन्द्रीयगृहमन्त्री सहकारितामन्त्री अमितशाहः इत्यादयः च अनेके नेतारः गुरुवासरे अहिल्याबाई-होल्करः इत्यस्याः पुण्यतिथौ तस्यै श्रद्धाञ्जलिं समर्पितवन्तः। बिरला लोकसभायाः पूर्वसभापतिं सोमनाथचटर्जीम् अपि स्मृतवान्। तस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान्।बिरला ‘एक्स’ इत्यत्र लिखितवान्— “लोकमाता अहिल्याबाई होल्करः इत्यस्याः पुण्यतिथौ अहं तस्यै श्रद्धाञ्जलिं समर्पयामि। अहिल्याबाई स्वशासनकाले कृषकाणां, शिल्पिनां, वणिजां सामान्य-नागरिकाणां च हितेभ्यः प्राथमिकतां प्रदत्तवती। तया मालवप्रदेशे वाणिज्यस्य, कृषेः स्थानीयार्थव्यवस्थायाश्च विकासः अपि प्रोत्साहितः। तस्याः शासनं जनकल्याणस्य, सुशासनस्य जनसेवायाश्च प्रेरणादायकम् उदाहरणम् अस्ति। धर्मस्य संस्कृतेश्च संरक्षणेन सह तया देशस्य अनेकप्रमुखतीर्थस्थलेषु मन्दिराणां, घट्टानां, कूपानां, वापीनां विश्रामगृहाणां च निर्माणे जीर्णोद्धारे च महत्त्वपूर्णं योगदानं कृतम्। तस्याः प्रयत्नानां व्यापकः प्रभावः अद्यापि भारतस्य सांस्कृतिकधरोहरे दृश्यते। लोकमातुः महतः योगदानस्य परम्परायाश्च सम्मानार्थं संसदः पुस्तकालयभवनस्य प्राङ्गणे स्थापितेयम् प्रतिमा केवलं महानायिकायाः स्मृतिं न धारयति, अपितु भारतस्य समृद्धानां सांस्कृतिकपरम्पराणां, जनकल्याणभावनायाः जनसेवायाः च आदर्शानां प्रतीकमपि अस्ति। सोमनाथ-चटर्जीणः सार्वजनिकजीवनं तस्य गहन-विधायीप्रज्ञायै, संसदीयपरम्परासु प्रति-बद्धतायै लोकतान्त्रिकसंस्थानां सुदृढी-करणाय निरन्तरप्रयत्नाय च सदैव स्मरिष्यते।”
अमितशाहः अवदत् यत् लोकमातुः मन्दिराणां जीर्णोद्धारे पुनर्निर्माणे च, तीर्थस्थलानां विकासे, सांस्कृतिक-परम्परायाः संरक्षणे पुनस्स्थापने च अद्वितीयं योगदानम् आसीत्। महिलाशिक्षायाः विधवा-पुनर्विवाहस्य च प्रोत्साहनेन अहिल्या-बाईहोल्करः महिलानां सशक्तीकरणं कृतवती तथा जनकल्याणस्य, न्यायस्य सुशासनस्य च आदर्शं स्थापितवती। तस्याः जीवनं धर्मं, संस्कृतिं, जनसेवां राष्ट्रहितं च प्रति समर्पणस्य प्रेरणादायकम् उदाहरणम् अस्ति। रक्षामन्त्री राजनाथसिंहः अवदत् यत् तस्याः जीवनं धर्मं, संस्कृतिं, जनसेवां राष्ट्रहितं च प्रति समर्पणस्य प्रेरणादायकम् उदाहरणम् अस्ति।
केन्द्रीयकृषिमन्त्री कृषककल्याणमन्त्री च शिवराजसिंहचौहानः अवदत् यत् अहिल्याबाई होल्करः सनातनचेतनायाः शाश्वतः प्रतीकं नारीशक्तेः मूर्तिस्वरूपं च आसीत् तथा सा भगवतः शिवस्य परमभक्ता आसीत्। ‘लोकमाता’ स्वजीवने शासनव्यवस्थायां च सनातनमूल्यानि आत्मसात् कृत्वा समाजं धर्मस्य न्यायस्य करुणायाश्च मार्गे अग्रे नीतवती। तया स्थापितस्य आदर्शप्रशासनस्य आधारः अद्यापि ‘एकभारत-श्रेष्ठभारत’ इत्यस्य निर्माणयात्रायै नूतनां दिशां प्रददाति। भारतस्य सांस्कृतिकपरम्परयाः पुन-रुद्धाराय जनकल्याणाय च तया कृतानि कार्याणि सदैव स्मरणीयानि प्रेरणा-दायकानि च भविष्यन्ति।
केन्द्रीयवस्त्रोद्योगमन्त्री गिरिराजसिंहः अवदत् यत् अहिल्याबाई होल्करः त्यागस्य तपस्यायाः सुशासनस्य च अमरप्रतिमूर्तिः आसीत्। तया धर्मस्य न्यायस्य करुणायाश्च पवित्रधारया शासनं कृतं तथा सम्पूर्णं जगत् प्रकाशमयं कृतम्।
Hindusthan Samachar / Divya Ranjan