Enter your Email Address to subscribe to our newsletters

लखनऊ, 13 अगस्तमासः (हि.स.)।
उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः गुरुवासरे लखनऊनगरे स्थिते स्वकीयसर्वकारीयावासे, सप्तकालिदासमार्गे, लोकमाता अहिल्याबाई होल्करस्य पुण्यतिथेः अवसरे तस्याः स्मृतिचित्रे माल्यार्पणं पुष्पाञ्जलिं च समर्प्य श्रद्धाञ्जलिम् अर्पितवान्।
केशवप्रसादमौर्येण निर्गते वक्तव्ये उक्तं यत् लोकमाता अहिल्याबाई होल्करेण मन्दिराणां, तीर्थस्थलानां सांस्कृतिकधरोहराणां च संरक्षणे पुनरुत्थाने च अतुलनीयः योगदानः प्रदत्तः। जनसेवां न्यायं च शासनस्य आधारं कृत्वा तया लोककल्याणस्य नूतनम् आदर्शं स्थापितम्। त्यागाय लोकहिताय च समर्पितं तस्याः जीवनम् आगामिसंततीनां सदैव मार्गदर्शनं करिष्यति।
केशवप्रसादमौर्यः अवदत् यत् न्यायं जनकल्याणं च शासनस्य मूलाधारं कृत्वा तया प्रजावत्सलनेतृत्वस्य अनुपमम् उदाहरणं प्रस्तुतम्। राष्ट्रस्य सांस्कृतिकधरोहराणां तीर्थस्थलानां च संरक्षणे पुनरुत्थाने च तस्याः अविस्मरणीयं योगदानं सदैव स्मरिष्यते। तस्याः आदर्शाः सदैव जनसेवायाः लोककल्याणस्य च मार्गे अस्माकं मार्गदर्शनं करिष्यन्ति।
-------------
Hindusthan Samachar / Dheeraj Maithani