सुकमायामद्य चलिष्यति आयुष्मानमहाभियानं, 10 सहस्रात् अधिकप्रपत्राणि निर्मातुं लक्ष्यम्
सुकमा / रायपुरम्, 13 अगस्तमासः (हि.स.)। मुख्यमन्त्रिणो विष्णुदेवसायस्य नेतृत्वे सुक्मामण्डलस्य प्रभारीमन्त्री केदारकश्यपस्य निर्देशानुसार अद्य गुरुवासरे आयुष्मान् महाभियानं सञ्चालयिष्यते। बस्तरतिरङ्गयात्रायाः उपलक्ष्ये आयोजिते अस्मिन् अभियाने स्व
सुकमा में आज से आयुष्मान महा अभियान फाइल फाेटाे


सुकमा / रायपुरम्, 13 अगस्तमासः (हि.स.)।

मुख्यमन्त्रिणो विष्णुदेवसायस्य नेतृत्वे सुक्मामण्डलस्य प्रभारीमन्त्री केदारकश्यपस्य निर्देशानुसार अद्य गुरुवासरे आयुष्मान् महाभियानं सञ्चालयिष्यते। बस्तरतिरङ्गयात्रायाः उपलक्ष्ये आयोजिते अस्मिन् अभियाने स्वास्थ्यविभागस्य जिलाप्रशासनस्य च दलानि ग्रामे ग्रामे गृहे गृहे च गत्वा पात्रहितग्राहिणां आयुष्मान् पत्राणि निर्मास्यन्ति।

जिलाधिकारी अमितकुमारस्य अध्यक्षतायां बुधवासरे सायंकाले अभियानस्य सज्जतायाः समीक्षणं कृतम्। प्रशासनस्य द्वारा अस्मिन् विशेषाभियाने दशसहस्राधिकानाम् आयुष्मान् पत्राणां निर्माणस्य लक्ष्यं निर्धारितम् अस्ति, येन अधिकाधिकानां पात्रपरिवाराणां स्वास्थ्यसुरक्षायाः लाभः प्राप्तुं शक्नुयात्।

अभियानस्य माध्यमेन पात्रपरिवाराणां कृते आयुष्मान् भारतयोजनायाः अन्तर्गतं प्रतिवर्षं पञ्चलक्षरूप्यकाणां यावत् नगदरहितचिकित्सासुविधा प्राप्स्यते। ७० वर्षाणि वा ततोऽधिकं वयः येषां वरिष्ठनागरिकाणां तेषां कृते आयुष्मान् वयवन्दनायोजनायाः लाभोऽपि उपलब्धः भविष्यति।

आयुष्मान् पत्रं निर्मातुं हितग्राहिभिः आधारपत्रं, राशनपत्रं, आधारेण सम्बद्धं चलदूरभाषसङ्ख्यां तथा आवश्यकानि परिचयपत्राणि च स्वसमीपे स्थापयितव्यानि। अभियानस्य अवधौ आयुष्मान् पत्राणि निःशुल्कं निर्मास्यन्ते।

Hindusthan Samachar / Dheeraj Maithani