स्वतंत्रता संग्राम सेनानी टिकेंद्रजीत सिंहं मुख्यमंत्री अनमत्
गुवाहाटी, 13 अगस्तमासः (हि.स.)।मुख्यमन्त्री डॉ. हिमन्त बिस्वसर्मा मणिपुरस्य महान् स्वतन्त्रतासङ्ग्रामसेनानी शहीद् टिकेन्द्रजीतसिंहस्य पुण्यतिथौ तं स्मृत्वा स्वीयां श्रद्धाञ्जलिम् अर्पितवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमेन एकं सन्देशं प्रसार्य उक्त
असम के मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा शेयर किया गया चित्र


गुवाहाटी, 13 अगस्तमासः (हि.स.)।मुख्यमन्त्री डॉ. हिमन्त बिस्वसर्मा मणिपुरस्य महान् स्वतन्त्रतासङ्ग्रामसेनानी शहीद् टिकेन्द्रजीतसिंहस्य पुण्यतिथौ तं स्मृत्वा स्वीयां श्रद्धाञ्जलिम् अर्पितवान्।

मुख्यमन्त्रिणा सामाजिकमाध्यमेन एकं सन्देशं प्रसार्य उक्तं यत् मणिपुरस्य स्वतन्त्रतासङ्ग्रामस्य महानायकः, आङ्ग्लविरोधिसङ्ग्रामस्य प्रमुखनेता तथा साहसी वीरः आसीत् शहीद् टिकेन्द्रजीतसिंहः।

मणिपुरक्रान्तेः समये आङ्ग्लविरोध्याञ्चलने ‘मणिपुरस्य सिंहः’ इति नाम्ना प्रसिद्धस्य अस्य महान् क्रान्तिकारिणः त्यागः अपारः आसीत्। स्वजीवनं तुच्छं मत्वा राष्ट्रस्य कृते स्वतन्त्रतासङ्ग्रामे प्रविष्टस्य अस्य वीरस्य अदम्यसाहसं शौर्यं च बहून् जनान् स्वतन्त्रतासङ्ग्रामे सक्रियतया भागं ग्रहीतुं प्रेरितवान्।

राष्ट्रमात्रे कृते स्वप्राणान् समर्पितस्य टिकेन्द्रजीतसिंहस्य शौर्यं वीरता च प्रत्येकस्याः संततेः कृते सदैव सम्मानस्य विषयः भविष्यति।

---------------