भाजपायुवमोर्चादलेन निर्गता तिरंगा यात्रा
जलपाईगुड़ी,13 अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य दृष्ट्या जनपदस्य राजगञ्जखण्डस्य आमबाडीक्षेत्रे भारतीयजनतापक्षस्य युवामोर्चातः गुरुवासरे ‘तिरङ्गायात्रा’ आयोजिता। तिरङ्गायात्रायाः प्रारम्भः आमबाडीस्थात् अञ्चलमोडतः अभवत्। हस्तेषु राष्ट्रध्वजं गृह
हाथों में तिरंगा लेकर यात्रा में शामिल भाजपा कार्यकर्ता


जलपाईगुड़ी,13 अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य दृष्ट्या जनपदस्य राजगञ्जखण्डस्य आमबाडीक्षेत्रे भारतीयजनतापक्षस्य युवामोर्चातः गुरुवासरे ‘तिरङ्गायात्रा’ आयोजिता। तिरङ्गायात्रायाः प्रारम्भः आमबाडीस्थात् अञ्चलमोडतः अभवत्। हस्तेषु राष्ट्रध्वजं गृहीत्वा भारतीयजनतापक्षस्य कार्यकर्तारः समर्थकाश्च कतिपयकिलोमीटरपर्यन्तं पद्भ्यां प्राचलन्। यात्रा डाकगृहमोडमार्गेण पुनः अञ्चलमोडं प्राप्य समाप्ता अभवत्। अस्मिन् अवसरे देशभक्तिपूर्णगीतैः ‘भारत माताकी जय’ इति घोषैश्च सम्पूर्णं क्षेत्रं मुखरितम् अभवत्।

तदनन्तरं ‘हरेकगृहे तिरङ्गः’ इति अभियानस्य अन्तर्गतं आमबाडीक्षेत्रे भारतीयजनतापक्षस्य वतीत्या जनानां पक्षीयकार्यकर्तॄणां च मध्ये राष्ट्रध्वजानां वितरणमपि कृतम्। भारतीयजनतापक्षस्य अनुसारं स्वातन्त्र्यदिवसस्य उपलक्ष्ये देशव्यापिनः अगस्तमासस्य नवमदिनाङ्कतः अगस्तमासस्य सप्तदशदिनाङ्कपर्यन्तं ‘हरेकगृहे तिरङ्गः’ इति अभियानं प्रचलति। अस्यैव अभियानस्य अन्तर्गतं आमबाड्यां तिरङ्गायात्रायाः राष्ट्रध्वजवितरणस्य च कार्यक्रमः आयोजितः। कार्यक्रमे राजगञ्जभारतीयजनतापक्षस्य उत्तरमण्डलाध्यक्षः अर्जुनमण्डलः, कृषकप्रकोष्ठस्य जिलाध्यक्षः नकुलदासः इत्यादयः अनेकाः भारतीयजनतापक्षस्य नेतारः कार्यकर्तारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani