Enter your Email Address to subscribe to our newsletters

रायपुरम्, १३ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः गुरुवासरे राजधान्यां रायपुरनगरे आयोजितेषु विभिन्नेषु कार्यक्रमेषु भागं ग्रहीष्यति। निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:३० वादने नवा-रायपुरस्थितं एकं निजीविश्रामगृहं गमिष्यति, यत्र सः ‘ग्रीन-स्टील-एण्ड-माइनिङ्ग-समिट्-२०२६’ इत्यस्मिन् कार्यक्रमे भागं ग्रहीष्यति।
तदनन्तरं मुख्यमन्त्री अपराह्णे ३ वादने मन्त्रालयं गत्वा उद्योगविभागस्य सभायां भागं ग्रहीष्यति। सभायाः अनन्तरं मुख्यमन्त्री सायं ५:५५ वादने मुख्यमन्त्री-निवासं प्रत्यागमिष्यति।
Hindusthan Samachar / Divya Ranjan