Enter your Email Address to subscribe to our newsletters

इतिहासे १४ अगस्तमासस्य तिथिः भारतीयोपमहाद्वीपस्य कृते अत्यन्तं महत्त्वपूर्णा भावनात्मिका च मन्यते। १९४७ तमे वर्षे अस्यामेव तिथौ भारतस्य विभाजनेन पाकिस्तानदेश: स्वतन्त्रराष्ट्र-रूपेण अस्तित्वम् अलभत, यदा तु परस्मिन् दिने १५ अगस्तमासे भारतं ब्रिटिशशासनात् स्वातन्त्र्यं प्राप्तवान्। स्वातन्त्र्यस्य एषा उपलब्धिः यद्यपि दीर्घसंघर्षस्य अनन्तरं प्राप्ता, तथापि तया सह विभाजनस्य एतादृशेन संकटेन अपि सम्बद्ध: आसीत्, येन लक्षशः परिवाराणां जीवनं सदैव परिवर्तित:।
ब्रिटिशशासनस्य अन्ते नूतनसीमानां निर्धारणानन्तरं बहुसंख्यकैः जनैः स्वगृहाणि त्यक्त्वा सीमायाः अपरस्मिन् पार्श्वे गन्तव्यम् अभवत्। भारत-पाकिस्तानयोः मध्ये अभवत् अस्मिन् बृहद्प्रमाणे जनस्थानान्तरणे हिंसा, साम्प्रदायिकताश्च भयावहमानवीय-सङ्कटम् उत्पादितवन्तः। इतिहास-काराणाम् अनुमानानुसारं विभाजनकाले प्रायः एककोटितः सार्ध-कोटिपर्यन्तं जनाः विस्थापिताः अभवन्, लक्षशः जनाः च प्राणान् अत्यजन्।
१४ अगस्तमासे पाकिस्तानदेश: स्वातन्त्र्य-दिवसम् आचरति, भारतस्य तु कृते अयं दिवसः स्वातन्त्र्यदिवसस्य पूर्वसन्ध्यारूपेण भवति। अतः एषा तिथिः स्वातन्त्र्यस्य हर्षेण सह विभाजनस्य वेदनाम् अपि स्मारयति।
विभाजनकाले जनैः अनुभूतां पीडां, विस्थापनं बलिदानं च स्मर्तुं तथा भावि-वंशानां तस्मिन् कालखण्डे जागरूकतां जनयितुं प्रधानमन्त्री नरेन्द्रमोदी २०२१ तमे वर्षे १४ अगस्तमासं ‘विभाजन-विभीषिकास्मृतिदिवसः’ इति रूपेण आचरितुं घोषितवान्।
अस्मिन् अवसरे विभाजनेन प्रभावित-परिवाराणां स्मृतीः, संघर्षस्य साहसस्य च कथाः स्मर्यन्ते। अस्य उद्देश्यम् इतिहासस्य अस्मात् वेदनापूर्णात् अध्यायात् शिक्षां गृहीत्वा सामाजिकैकतां, सद्भावं भ्रातृभावं च सुदृढीकर्तुम् अस्ति।
महत्त्वपूर्णः घटनाक्रमः
१८६२ — बम्बई-उच्चन्यायालयस्य स्थापना अभवत्।१९०८ — इङ्ग्लैण्डस्य फोकेस्टोन-नगरे प्रथमा सौन्दर्यप्रतियोगिता आयोजिता।१९१७ — चीनदेशेन जर्मनी-आस्ट्रियादेशयोः विरुद्धं युद्धस्य घोषणा कृता।१९२० — बेल्जियमदेशस्य एण्टवर्प्-नगरे ओलम्पिक-क्रीडानां प्रारम्भः अभवत्।१९३६ — बर्लिन-नगरे प्रथमः ओलम्पिक-बास्केटबॉल-क्रीडास्पर्धा अभवत्।१९३८ — बीबीसी-संस्थायाः प्रथमः फीचर-चलच्चित्रः ‘स्टूडेन्ट् ऑफ् प्राग’ दूरदर्शने प्रसारितः।१९४७ — भारतस्य विभाजनम् अभवत् तथा पाकिस्तानदेश: पृथक् राष्ट्ररूपेण अस्तित्वम् अलभत।१९६८ — मोरारजी देसाई पाकिस्तानस्य सर्वोच्चनागरिकसम्मानेन ‘निशान-ए-पाकिस्तान’ इत्यनेन सम्मानिताः।१९७१ — बहरीनदेशः ११० वर्षाणाम् अनन्तरं ब्रिटिशशासनात् स्वातन्त्र्यम् अलभत।१९७५ — पाकिस्तानीसेनया राष्ट्रपतिः मुजीब-उर-रहमानः सत्ताच्युतः कृतः।२००१ — मेसेडोनिया-सर्वकारस्य अल्बानीयविद्रोहिभिः सह सम्झौता अभवत्; आयरिश-रिपब्लिकन्-आर्मी-सङ्घटनेन निरस्त्रीकरणं स्वीकर्तुं निषेधः कृतः।२००२ — पाकिस्तानस्य राष्ट्रपतिना जनरल् परवेजमुशर्रफेण कश्मीरस्य निर्वाचनानि प्रपञ्चमात्राणि इति कथितानि।२००६ — संयुक्तराष्ट्रसङ्घस्य प्रयासेन इस्रायल-दक्षिणलेबनानयोः मध्ये पञ्चसप्ताहेभ्यः प्रचलितः संघर्षः शान्तः।२००६ — इराकस्य कहतानिया-नगरे बमविस्फोटेषु ४०० जनाः मृताः।२००७ — पाकिस्तानीराष्ट्राध्यक्षस्य परवेजमुशर्रफस्य पाकिस्तान-पीपुल्स-पार्टी-अध्यक्षया पूर्वप्रधानमन्त्रिण्या बेनजीरभुट्टोया सह सन्धि: अभवत्।२०१३ — मिस्रदेशे आरक्षककर्मचारिणां प्रदर्शनकारिणां च मध्ये हिंसकसंघर्षे ६३८ जनाः मृताः।
जन्म
१९०० — एस. के. पाटिलः — मुम्बईनगरस्य प्रमुखनेता तथा केन्द्रसर्वकारे अनेकविभागानां मन्त्री आसीत्।१९२४ — सैयद मुज़फ़्फ़र हुसैन बर्नी — ओडिशा-कैडर इत्यस्य भारतीयप्रशासनिकसेवायाः अधिकारी आसीत्।१९२४ — कुलदीपनैयरः — भारतस्य प्रसिद्धः लेखकः पत्रकारश्च आसीत्।१९४१ — टी. वी. रामकृष्णन् — भारतीयः सैद्धान्तिकभौतिकविज्ञानी अस्ति।१९५७ — जॉनी लीवरः — हिन्दीचलचित्राणां प्रसिद्धः हास्याभिनेता अस्ति।१९६८ — प्रवीण: आमरे — भारतीयः क्रिकेट-क्रीडकः।१९७० — रामेश्वर: तेली — भारतीयजनतापार्टी-दलस्य राजनेता तथा असमस्य सक्रियः भारतीयराजनीतिज्ञः।१९९५ — ऐश्वर्या पिस्से — भारतीयाऽऽवर्तपथीय-मोटरसाइकिल् तथा ऑफ्-रोड् मोटरसाइकिल-क्रीडिका अस्ति।
निधनम्
१९४१ — केसरीसिंह बारहटः — प्रसिद्धः राजस्थानीकविः तथा स्वातन्त्र्यसेनानी।१९७९ — एडौर्ड गौबर्टः — पुदुच्चेरीराज्यस्य प्रथमः मुख्यमन्त्री आसीत्।१९८४ — खाशाबा जाधवः — भारतस्य सः प्रथमः कुश्तीक्रीडकः आसीत्, येन हेलसिन्की-ओलम्पिक्-क्रीडासु कांस्यपदकं प्राप्तम्।१९८८ — कैलाशनाथ वाञ्चू — भारतस्य दशमः मुख्यन्यायाधीशः आसीत्।१९९६ — अमृतरायः — प्रसिद्धः उपन्यासकारः, निबन्धकारः, समीक्षकः अनुवादकश्च आसीत्।२००० — हवा सिंहः — भारतस्य श्रेष्ठतमेषु मुक्केबाज इत्येतेषु अन्यतमः आसीत्।२००७ — येनो मीनागावा — जापानदेशस्य विश्वस्य सर्वाधिकवयस्का महिला।२०११ — शम्मी कपूरः — प्रसिद्धः हिन्दीचलचित्राभिनेता।२०१२ — विलासराव: देशमुखः — भारतीयः राजनेता तथा भारतीय-राष्ट्रीय-कांग्रेस-दलस्य नेता आसीत्।२०१७ — चन्द्रकान्त देवताले — प्रसिद्धः भारतीयः कविः साहित्यकारश्च।२०१८ — बलरामजीदासटंडनः — छत्तीसगढस्य राज्यपालः आसीत्।२०२२ — राकेश झुनझुनवाला — भारतस्य निवेशकः अंशव्यापारी च आसीत्।
महत्त्वपूर्णः अवसरः
विभाजनविभीषिकास्मृतिदिवसः।
Hindusthan Samachar / Divya Ranjan