Enter your Email Address to subscribe to our newsletters


नवदिल्ली, १३ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः तस्य पत्नी च गुरुवासरे दिल्लीस्थिते स्वनिवासे ‘हर घर तिरङ्गा’ अभियानस्य अन्तर्गतं त्रिरङ्गं ध्वजम् आरोपितवन्तौ।
शाहः ‘एक्स’ इति सामाजिकमाध्यमे लिखितवान्, “अद्य स्वनिवासे मया ‘हर घर तिरङ्गा’ अभियानस्य अन्तर्गतं त्रिरङ्गः आरोपितः। प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे प्रारब्धम् एतदभियानम् अद्य प्रत्येकं भारतीयस्य मनसि देशभक्तेः गौरवस्य च भावनां अधिकं सुदृढं करोति। अद्य कोटिशः देशवासिनः त्रिरङ्गेन सह सम्बध्यन्ते तथा ‘एकभारतं श्रेष्ठभारतं’ इति भावनां सुदृढां कुर्वन्ति।”
तथैव केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः अपि सामाजिक-माध्यमे एकं दृश्यचित्रं प्रकाशितवान्। सः अवदत्, “डल-सरोवरम्, शिकारा, त्रिरङ्गः आनन्ददायकश्च अनुभवः! कश्मीरस्य सौन्दर्यस्य मध्ये गौरवेण प्रसरन् त्रिरङ्गः—एषैव नूतनकश्मीरस्य नूतन: परिचयः। अत्र प्रत्येकं हृदये शान्तेः, विकासस्य देशस्य च कृते गौरवस्य भावना वर्तते। एतत् केवलं दृश्यं नास्ति, अपितु नूतनकश्मीरस्य नूतना ऊर्जा अस्ति।”
Hindusthan Samachar / Divya Ranjan