मुख्यमंत्री गाजीपुर ड्रेनतः हिंडन नलिकां यावत् 2 लेन स्लिप रोड ब्रिज इत्यस्य कृतं लोकार्पणम्
नव दिल्ली, 13 अगस्तमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखागुप्ता गुरुवासरे गाजीपुरनालिकातः हिंडननहरपर्यन्तं द्विमार्गीयस्लिपमार्गसेतुम् उद्घाटितवती। अस्मिन्नवसरे दिल्लीभाजपाप्रदेशाध्यक्षः तथा केन्द्रीयः राज्यमन्त्री हर्षमल्होत्रा, दिल्लीलोकनिर्माण
मुख्यमंत्री रेखा गुप्ता गुरुवार को गाजीपुर ड्रेन से हिंडन नहर तक 2 लेन स्लिप रोड ब्रिज का लोकार्पण करते हुए


मुख्यमंत्री रेखा गुप्ता गुरुवार को गाजीपुर ड्रेन से हिंडन नहर तक 2 लेन स्लिप रोड ब्रिज का लोकार्पण करते हुए


नव दिल्ली, 13 अगस्तमासः (हि.स.)।

दिल्लीमुख्यमन्त्री रेखागुप्ता गुरुवासरे गाजीपुरनालिकातः हिंडननहरपर्यन्तं द्विमार्गीयस्लिपमार्गसेतुम् उद्घाटितवती। अस्मिन्नवसरे दिल्लीभाजपाप्रदेशाध्यक्षः तथा केन्द्रीयः राज्यमन्त्री हर्षमल्होत्रा, दिल्लीलोकनिर्माणविभागस्य मन्त्री प्रवेशसाहिबसिंहः, विधायकाः रविन्द्रनेगी, रविकान्तः, भाजपाजिलाध्यक्षः विजेन्द्रधामा च उपस्थिताः आसन्।

मुख्यमन्त्रिणा सामाजिकमाध्यमस्य एक्स इत्यस्मिन् माध्यमे सन्देशं प्रसारयता उक्तं यत् अनेन नूतनसम्पर्कमार्गेण कोंडली, कल्याणपुरी, गाजीपुर तथा समीपवर्तिक्षेत्राणां लक्षाधिकजनानां आवागमनं सुगमं भविष्यति तथा यातायातस्य दबावः न्यूनो भविष्यति। तया उक्तं यत् दिल्लीविकासस्य प्रत्यक्षलाभः जनानां दैनिकजीवने दृश्येत इत्येतद् अस्माकं प्रयत्नः अस्ति।

मुख्यमन्त्रिणा उक्तं यत् उत्तममार्गैः, सुगमयातायातेन आधुनिकसम्पर्कव्यवस्थया च अस्माकं सर्वकारः दिल्लीवासिनां जीवनं निरन्तरं सुखकरं सुलभं च कर्तुं प्रयतते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani