भारतदेशं वैश्विक-विनिर्माणकेन्द्रं कर्तुं केन्द्रित-रणनीतेः आवश्यकता - नीति-आयोगः
नवदिल्ली, १३ अगस्तमासः (हि.स.)। केन्द्रसर्वकारस्य प्रमुखः नीतिगतः ‘थिङ्क टैंक’ इति नीति-आयोगः गुरुवासरे अवदत् यत् भारतदेशं २०४७ तमवर्षपर्यन्तं वैश्विक-विनिर्माणकेन्द्रं भवितुं व्यापक-उत्पादनम्, प्रतिस्पर्धात्मकता, नवाचारः तथा वैश्विक-मूल्यशृङ्खलाभि
नीति आयोग के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, १३ अगस्तमासः (हि.स.)। केन्द्रसर्वकारस्य प्रमुखः नीतिगतः ‘थिङ्क टैंक’ इति नीति-आयोगः गुरुवासरे अवदत् यत् भारतदेशं २०४७ तमवर्षपर्यन्तं वैश्विक-विनिर्माणकेन्द्रं भवितुं व्यापक-उत्पादनम्, प्रतिस्पर्धात्मकता, नवाचारः तथा वैश्विक-मूल्यशृङ्खलाभिः सह एकीकरणम् इत्येतेषु केन्द्रितया रणनीत्या आवश्यकताम् अनुभविष्यति।

नीति-आयोगेन ‘भारतं वैश्विक-विनिर्माणकेन्द्रं कर्तुं प्रमुखानि क्षेत्राणि’ इति शीर्षकेण प्रकाशिते प्रतिवेदने रसायनक्षेत्रम्, वस्त्रोद्योगः, दूरसञ्चारः एवं संजालोपकरणानि तथा सौर-पीवी-विनिर्माणम् इति औद्योगिकवृद्धिं त्वरितं कर्तुं समर्थान् चतुरः प्रमुखक्षेत्रान् निर्दिष्टवान्। अस्य प्रतिवेदनस्य प्रकाशनावसरे नीति-आयोगस्य उपाध्यक्षः अशोककुमारलाहिडी अवदत्, ‘‘भारतदेशः स्वस्य आर्थिक-औद्योगिक-विकास-यात्रायाः महत्त्वपूर्णे चरणे अस्ति। ‘विकसितभारत @2047’ इति लक्ष्यं प्रति अग्रसरतायां सति विनिर्माणं भविष्यस्य विकासस्य दिशानिर्धारणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।’’

तेन उक्तं यत् विश्वस्य प्रमुखानाम् औद्योगिक-अर्थव्यवस्थानाम् अनुभवानां दृष्ट्या निरन्तर-आर्थिक-परिवर्तनाय सुदृढः वैश्विकस्तरे प्रतिस्पर्धाक्षमः च विनिर्माणाधारः आवश्यकः अस्ति। लाहिडी अवदत् यत् विनिर्माणक्षेत्रं निवेशं, नवाचारं तथा निर्यातं च प्रोत्साहयित्वा गुणवत्ता-पूर्णान् रोजगारावसरान् सृजति, उत्पादकतां वर्धयति तथा अर्थव्यवस्थायाः विभिन्नक्षेत्राणां मध्ये सम्बन्धान् सुदृढान् करोति।

आयोगेन प्रकाशितस्य अस्य प्रतिवेदनस्य अनुसारम् एतेषां क्षेत्राणां माध्यमेन रोजगारसृजनस्य, प्रौद्योगिकीक्षमतानां सुधारस्य, आत्मनिर्भरतायाः सुदृढीकरणस्य तथा अन्ताराष्ट्रियविपणिषु भारतस्य उपस्थितिवर्धनस्य अवसराः सन्ति। आयोगेन उक्तं यत् भारतस्य समीपे विशालः गृहविपणी, अनुकूलं जन-सांख्यिकीयं परिदृश्यम्, उत्तमं नीतिगतं वातावरणम्, आधारभूतसंरचनायां वर्धमानः निवेशः तथा आपूर्तिशृङ्खलानां विविधीकरणे वैश्विकसमुदायस्य वर्धमाना रुचिः इत्यादयः लाभाः सन्ति।

अस्मिन् प्रतिवेदने नीति-आयोगेन लक्षितायाः दत्तांशाधारितायाः च रणनीतेः महत्त्वे बलं दत्तम् अस्ति। अस्याः रणनीतेः अन्तर्गतं सकलघगृहोत्पादे विनिर्माण-क्षेत्रस्य भागं २५ प्रतिशताधिकं वर्धयितुं, दशकोट्यधिकान् रोजगारा-वसरान् सृजितुं तथा प्रमुखक्षेत्रेषु उन्नत-प्रौद्योगिकीनां स्वीकरणस्य रूपरेखा निर्मिता अस्ति।

Hindusthan Samachar / Divya Ranjan