Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ अगस्तमासः (हि.स.)। केन्द्रीयमन्त्री जे.पी. नड्डा त्रिवर्णध्वजयात्रां त्रिवर्णध्वज-अभियानं च सम्पूर्णदेशे जनसहभागितायाः अभियानरूपेण निरूपितवान्। सः अवदत् यत् अगस्तमासस्य ९ दिनाङ्कात् प्रारब्धा त्रिवर्णध्वजयात्रा त्रिवर्णध्वज-अभियानं च अगस्तमासस्य १५ दिनाङ्कपर्यन्तं प्रचलिष्यतः। अस्य अन्तर्गतं देशस्य नगरेभ्यः ग्रामेभ्यश्च त्रिवर्णध्वजयात्राः आयोज्यन्ते तथा जनाः उत्साहेन तासु भागं गृह्णन्ति।
नड्डा अवदत् यत् यदा देशेन स्वातन्त्र्यस्य ७५ वर्षाणि पूर्णानि, तदा प्रधानमन्त्री नरेन्द्रमोदी २०२२ तमे वर्षे आह्वानं कृतवान् आसीत् यत् त्रिवर्णध्वज-अभियानं केवलं सर्वकारस्य कार्यक्रमः न भवेत्, अपितु जनान्दोलनं भवेत्। ततः सम्पूर्णदेशे कोटिशः गृहेषु त्रिवर्णध्वजः आरोहितः तथा जनैः अस्मिन् अभियाने उत्साहपूर्वकं सहभागिता कृता। केन्द्रीयमन्त्री अवदत् यत् सः अपि अद्य स्वनिवासे परिवारेण सह त्रिवर्णध्वजम् आरोहितवान्। एतत् स्वजीवने सौभाग्यस्य अवसरं मन्यमानः सः अवदत् यत् त्रिवर्णध्वजः देशस्य एकतायाः गौरवस्य राष्ट्रीयभावनायाश्च प्रतीकम् अस्ति।
नड्डा अवदत् यत् भारतं आत्मनिर्भरं विकसितं च राष्ट्रं कर्तुं देशवासिषु राष्ट्रभक्तेः भावना आवश्यकी अस्ति। सः जनान् त्रिवर्णध्वज-अभियाने सम्मिलितुं देशस्य विकासस्य संकल्पं च सुदृढं कर्तुं आह्वानं कृतवान्। तस्य मतानुसारं देशभक्तेः भावनया सामूहिकप्रयत्नैश्च भारतं आत्मनिर्भरं विकसितं च कर्तुं निर्धारितं लक्ष्यं प्राप्तुं शक्यते।
Hindusthan Samachar / Divya Ranjan