Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ अगस्तमासः (हि.स.)। कांग्रेस-अध्यक्षः मल्लिकार्जुनखरगे हल्द्वान्यां तस्य शोभायात्राया: अनन्तरं कथित-शुद्धीकरणकार्यक्रमस्य विषये उक्तवान् यत् एतादृशं शुद्धीकरणं देशं विभक्तुं कार्यं करोति। सः उक्तवान् यत् हल्द्वान्यां शुद्धीकरणं कृतवद्भिः सर्वैः जनैः विरुद्धं प्रकरणं पञ्जीकर्तव्यं, ते च गृहीत्वा तेषां विरुद्धं कार्यवाही करणीया।
खरगे बुधवासरे संसद्भवनपरिसरे पत्रकारैः सह वार्तालापं कुर्वन् उक्तवान् यत् हल्द्वान्यां यद् अभवत्, तत् देशस्य कृते समीचीनं नास्ति तथा च तेन देशस्य विभाजनस्य कार्यं भवति।
ततः पूर्वं खरगे राज्यसभायां भाषमाणः उक्तवान् यत् सः हल्द्वान्याः रामलीला-प्रांगणे जनान् सम्बोधितवान्। शोभा-यात्रायां तेन न कस्यचित् धर्मस्य न च समाजस्य नाम गृहीतम्। तत्र केवलं जनानां समस्याः एव कथिताः। खरगे आरोपितवान् यत् शोभायात्रास्थलात् तस्य प्रस्थानानन्तरं बुधवासरे भाजपायाः जनैः तस्य स्थानस्य शुद्धीकरणं कृतम्। एतत् निन्दनीयम् अस्ति।
उल्लेखनीयं यत् हल्द्वान्यां एषः विवादः कांग्रेस-अध्यक्षस्य शोभायात्राया: अनन्तरं प्रारब्धः। हल्द्वान्याः रामलीलाप्रांगणे ८ अगस्तमासे कांग्रेसस्य ‘विजय-शङ्खनाद-शोभायात्रा’ आयोजिता आसीत्। तस्याः द्विदिनानन्तरं १० अगस्तमासे तस्मिन्नेव प्रांगणे ‘श्रीरामसेना धर्मार्थसेवान्यासस्य’ पक्षतः हवन-पूजनं कथित-शुद्धीकरण-कार्यक्रमश्च आयोजितः। कार्यक्रमस्य छायाचित्राणि दृश्यचित्राणि च समक्षम् आगतानन्तरं एषः विषयः राजनैतिक-विवादरूपेण परिणतः।
Hindusthan Samachar / Divya Ranjan