Enter your Email Address to subscribe to our newsletters

वाशिंगटनम्, 13 अगस्तमासः (हि.स.)।
व्हाइटहाउसस्य पत्रालयसचिवा कैरोलिनलेविट् अतीव शीघ्रं स्वपदं त्यक्ष्यति। तां व्हाइटहाउसस्य सर्वाधिकशक्तिशालिनीनां तथा राष्ट्रपतेः डोनाल्डट्रम्पस्य अतिनिकटतमासु अधिकारिणीषु एकतमा मन्यते। ट्रम्पेन लेविट् इत्यस्याः निर्णयस्य स्वागतं कृतम् अस्ति। राष्ट्रपतिना अस्य मासस्य अन्तपर्यन्तं व्हाइटहाउसतः कैरोलिनलेविट् इत्यस्याः सम्भावितविदायस्य सूचना बुधवासरे स्वस्य ट्रुथसोशल् इत्याख्ये सामाजिकमाध्यमे प्रदत्ता। तेन लिखितम्, ‘‘व्हाइटहाउसस्य प्रेससचिवा कैरोलिनलेविट् मम विश्वसनीयतमासु सहयोगिषु एकतमा अस्ति। सा मासस्य अन्ते स्वपदं त्यक्ष्यति। ततः सा स्वस्य परिवाराय प्रियाभ्यां लघुबालाभ्यां च अधिकाधिकं समयं दास्यति।’’
राष्ट्रपतिना ट्रम्पेन लिखितं, ‘‘अहं लेविट् इत्यस्याः निर्णयस्य पूर्णतया सम्मानं करोमि। कैरोलिन् अधुना मम बाह्यपरामर्शदातृषु प्रमुखतमा भविष्यति तथा रिपब्लिकन्पक्षे प्रभावशालिनी स्वरूपा भविष्यति। सा मध्यावधिकनिर्वाचने सहयोगं करिष्यति। कैरोलिनेन व्हाइटहाउसस्य उत्कृष्टं नेतृत्वं कृतम् अस्ति। सा २०१८ तमवर्षात् न्यायस्य, स्वातन्त्र्यस्य स्वतन्त्रतायाश्च कृते संघर्षं कृतवती अस्ति। अस्मिन् २०२४ तमवर्षस्य ऐतिहासिकनिर्वाचनप्रचारः अपि सम्मिलितः अस्ति। कैरोलिनस्य गणना व्हाइटहाउसस्य इतिहासे श्रेष्ठतमासु प्रेससचिवासु एकतमा इति भविष्यति। एतदर्थं तस्यै अहं कृतज्ञतां ज्ञापयामि।’’
अस्य घटनाक्रमस्य विषये सीएनएन इत्यस्य वृत्तान्ते उक्तं यत् मध्यावधिकनिर्वाचनाय अधुना त्रिमासात् अपि न्यूनः कालः अवशिष्टः अस्ति। अतः राष्ट्रपतेः अतिनिकटतमासु सहयोगिषु एकस्याः व्हाइटहाउसतः निर्गमनं महत्त्वपूर्णः परिवर्तनः भविष्यति। एतत् परिवर्तनं ट्रम्पस्य कृते कठिनसमये भवति। ईराणदेशेन सह प्रवर्तमानयुद्धस्य तथा उच्चगैसमूल्यानां मध्ये तस्य अनुमोदनस्तरः न्यूनः अस्ति तथा अधिकांशाः अमेरिकीयाः मन्यन्ते यत् तेन देशस्य सर्वाधिकमहत्त्वपूर्णेषु समस्यासु पर्याप्तं ध्यानं न दत्तम्।
अष्टाविंशतिवर्षीया लेविट् व्हाइटहाउसस्य सर्वकनिष्ठा प्रेससचिवा भूत्वा इतिहासं रचितवती अस्ति। ट्रम्पस्य प्रथमकार्यकालस्य तुलनया द्वितीयकार्यकाले लेविट् सर्वाधिकशक्तिशालिनी अधिकारिणी इति रूपेण उद्भूता। सा राष्ट्रपतेः तस्य नीतिनां च दृढतया समर्थनं कृतवती। कठिनप्रश्नान् पृच्छद्भिः पत्रकारैः सह तस्याः विवादाः अभवन्, तथापि तैः सह मैत्रीपूर्णसम्बन्धाः सा कदापि न त्यक्तवती।
ध्वनिविस्तारकस्य पृष्ठतः सामाजिकमाध्यमेषु च सा स्वं श्रेष्ठपत्नीं कार्यरतां मातरं च इति रूपेण प्रस्तुतवती। सा स्वं लघुपुत्रं निको इत्याख्यं वायुवीमानसेनायाः विमानं एयरफोर्सवन् तथा राष्ट्रपतेः कार्यालयं ओवलऑफिस् च नीतवती। व्हाइटहाउसस्य ईस्टरएगरोल् तथा हेलोवीन् उत्सवयोः समये स्वपत्या सह छायाचित्राणि अपि कारितवती। सा स्वयमेव सेवफलपिष्टकं निर्मितवती तथा स्वस्य नवजातया पुत्र्या विवियाना इत्यनया सह स्नेहपूर्णान् क्षणान् व्यतीतवती।
ट्रम्पस्य सन्देशस्य अनन्तरं लेविट् सामाजिकमाध्यमे लिखितवती, ‘‘सत्यम् एतत् यत् पुत्र्याः जन्मनः अनन्तरं व्हाइटहाउसस्य कार्ये प्रत्यागत्य मया हृदयेन अनुभूतं यत् उत्कृष्टमाता भवितुं मया किमपि चिन्तनीयम्। व्हाइटहाउसस्य त्यागस्य निर्णयेन अहं हृष्टापि अस्मि दुःखितापि च।’’
उल्लेखनीयं यत् मईमासस्य प्रथमदिनाङ्के पुत्र्याः जन्मनः अनन्तरं लेविट् व्हाइटहाउसतः प्रायः एकमासस्य अवकाशं गृहीतवती आसीत्। जुलाईमासे २०२४ तमवर्षे यदा लेविट् इत्यस्याः प्रथमस्य बालकस्य जन्म अभवत्, तदा सा केवलं चतुर्दिनानां अवकाशं गृहीतवती आसीत्।
ट्रम्पस्य प्रथमकार्यकालस्य अनन्तरं लेविट् स्वगृहराज्यं न्यूहैम्पशायरतः कांग्रेसस्य सामान्यनिर्वाचने प्रत्याशी अभवत्, किन्तु सा पराजितवती। ततः २०२४ तमवर्षस्य राष्ट्रपतिनिर्वाचनप्रचारकाले सा ट्रम्पस्य विश्वसनीयतमेषु व्यक्तिषु एकतमा अभवत्। अधुना २०२६ तमवर्षस्य मध्यावधिकनिर्वाचनस्य गतिविधयः वर्धमानाः सन्ति, अतः लेविट् बहिः स्थित्वा महत्त्वपूर्णसन्देशवाहिकारूपेण उद्भवितुं शक्नोति। बुधवासरे सापि लिखितवती, ‘‘अहं सर्वदा रिपब्लिकन्पक्षस्य समर्थिका भविष्यामि।’’
इतस्ततः व्हाइटहाउसस्य अन्तः लेविट् इत्यस्याः स्थाने कः भविष्यति इति चित्रं अद्यापि स्पष्टं न जातम्।
---------------
Hindusthan Samachar / Dheeraj Maithani