भोपालनगरे अद्य नौका-त्रिरङ्गयात्रा, देशे प्रथमवारं सरोवरस्य मध्ये निर्मास्यते ‘फ्लोटिङ्ग त्रिरङ्गः’
भोपालम्, १३ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे सम्पूर्णदेशे आयोज्यमानानां त्रिरङ्गयात्राणां श्रृङ्खलायां मध्यप्रदेशस्य राजधान्यां भोपालनगरे अद्य गुरुवासरे विशालायाः नौका-तिरङ्गायात्रायाः आयोजनं क्रियते। मुख्यमन्त्रिणः डॉ. मोहन यादवस्य मुख
तिरंगा यात्रा की तैयारियों का जायजा लेते हुए खेल मंत्री सारंग (फाइल)


भोपालम्, १३ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे सम्पूर्णदेशे आयोज्यमानानां त्रिरङ्गयात्राणां श्रृङ्खलायां मध्यप्रदेशस्य राजधान्यां भोपालनगरे अद्य गुरुवासरे विशालायाः नौका-तिरङ्गायात्रायाः आयोजनं क्रियते। मुख्यमन्त्रिणः डॉ. मोहन यादवस्य मुख्यातिथ्ये एषा यात्रा प्रातः ११ वादने बोट्-क्लब, बृहत्तडागात् प्रारभ्यते।

क्रीडा-युवकल्याणमन्त्री विश्वाससारङ्गः अवदत् यत् अस्मिन् भव्ये आयोजने शतशः नौकाः त्रिरङ्गैः सह सम्मिलिताः भविष्यन्ति तथा सहस्रशः देशभक्ताः नागरिकाः त्रिरङ्गायात्रायां सहभागिनः भविष्यन्ति। बृहत्तडागस्य जलक्षेत्रं त्रिरङ्गस्य प्रतिविम्बेन समाक्रान्तं भविष्यति।

मन्त्री सारङ्गः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः आह्वानानुसारं सम्पूर्णदेशे त्रिरङ्गायात्राः आयोज्यन्ते। “नभसः आरभ्य जलपर्यन्तं सर्वत्र त्रिरङ्गः प्रसरतु, एतदेव अस्माकं लक्ष्यं वर्तते।” भारतमातुः वैभवं परमां प्रगतिं प्राप्नुयात् तथा देशस्य प्रत्येकं नागरिकः देशभक्तिभावनया ओतप्रोतः भवेत्, इत्येव उद्देशेन भोपालस्य बृहत्तडागस्य प्राकृतिकसौन्दर्यस्य मध्ये नौका-त्रिरङ्गायात्रायाः आयोजनं क्रियते।

शतशः नौकासु प्रसरिष्यति त्रिरङ्गः

नौका-त्रिरङ्गायात्रायां विभिन्नासु नौकासु राष्ट्रध्वजैः सह प्रतिभागिनः सम्मिलिताः भविष्यन्ति। बृहत्तडागस्य जलक्षेत्रे त्रिरङ्गैः अलङ्कृतानां शतशः नौकानां भव्यं दृश्यं देशभक्तेः राष्ट्रीय-गौरवस्य च भावनां प्रदर्शयिष्यति। आयोजने युवानः, क्रीडकाः, सामाजिक-सङ्घटनानि तथा बहुसंख्याकाः सामान्य-नागरिकाः सहभागितां करिष्यन्ति।

देशे प्रथमवारं सरोवरस्य मध्ये निर्मास्यते ‘फ्लोटिङ्ग् त्रिरङ्गः’

भोपालस्य बृहत्तडागे देशभक्तेः अनन्यं भव्यं च दृश्यं द्रष्टुं लप्स्यते। स्वातन्त्र्यदिवसस्य अवसरे देशे प्रथमवारं सरोवरस्य मध्ये ‘फ्लोटिङ्ग् त्रिरङ्गः’ निर्मास्यते। बहु-संख्यकानां नौकानां त्रिरङ्गाणां च साहाय्येन विशेषं विन्यासं निर्माय जलपृष्ठे विशालत्रिरङ्गस्य स्वरूपं प्रदर्शयिष्यते। एषः अनन्यः कार्यक्रमः देशभक्तेः, एकतायाः राष्ट्रगौरवस्य च सन्देशं प्रदास्यति तथा भोपालस्य बृहत्तडागात् प्रस्थास्यमानायाः नौका-त्रिरङ्गायात्रायाः प्रमुखम् आकर्षणं भविष्यति।

मन्त्री सारङ्गः प्रदेशवासिभ्यः अस्मिन् ऐतिहासिके भव्ये च आयोजने अधिका-धिकसंख्यया सम्मिलिताः भूत्वा त्रिरङ्गस्य सम्मानस्य राष्ट्रभक्तेः च भावनां सुदृढीकर्तुं आह्वानं कृतवान्।

Hindusthan Samachar / Divya Ranjan