संसदीयलोकतन्त्रस्य इतिहासे प्रथमवारं विपक्षः चर्चातः पलायितः - संसदीयकार्यमन्त्री
नवदिल्ली, १३ अगस्तमासः (हि.स.)। सर्वकारेण अद्य आरोपितं यत् देशस्य लोकतान्त्रिकेतिहासे एषः प्रथमः अवसरः अस्ति यदा विपक्षः संसदः मध्ये चर्चां कर्तुं पलायितवान्, यदा तु सर्वकारः विपक्षं पुनः पुनः चर्चायां भागं ग्रहीतुं आह्वयति स्म। संसदः वर्षा-सत्रस्
संसदीयलोकतन्त्रस्य इतिहासे प्रथमवारं विपक्षः चर्चातः पलायितः - संसदीयकार्यमन्त्री


नवदिल्ली, १३ अगस्तमासः (हि.स.)। सर्वकारेण अद्य आरोपितं यत् देशस्य लोकतान्त्रिकेतिहासे एषः प्रथमः अवसरः अस्ति यदा विपक्षः संसदः मध्ये चर्चां कर्तुं पलायितवान्, यदा तु सर्वकारः विपक्षं पुनः पुनः चर्चायां भागं ग्रहीतुं आह्वयति स्म।

संसदः वर्षा-सत्रस्य समापनानन्तरं संसदीयकार्यमन्त्री किरेनरीजीजू माध्यम-प्रतिनिधीन् सम्बोधयन् उक्तवान् यत् परिणामानां दृष्ट्या वर्षा-सत्रं सम्यक् अभवत्, यस्मिन् १२ विधेयकानि पारितानि। किन्तु चर्चायाः दृष्ट्या सत्रं संतोषजनकं न आसीत्। लोकसभायाः कार्यवाहीयाः समग्र-उत्पादकता १९ प्रतिशतं तथा राज्यसभायाः उत्पादकता ३९ प्रतिशतं आसीत्।

वार्ताहरसम्मेलने संसदीयकार्यस्य उभौ राज्यमन्त्रिणौ अर्जुनराममेघवालः एल-मुरुगन् च, संसदीयकार्यसचिवः निकुञ्ज-धरः तथा अतिरिक्तसचिवः सत्यप्रकाशः अपि उपस्थिताः आसन्।

रीजीजू उक्तवान् यत् चर्चायाः दृष्ट्या वयं प्रसन्नाः न स्मः। सः अवदत् यत् तस्य संसदीयजीवनस्य त्रिंशद्वर्षीयः अनुभवः अस्ति, किन्तु अस्मिन् समये सः एतादृशं किञ्चित् दृष्टवान् यत् पूर्वं कदापि न दृष्टम् न वा श्रुतम्। प्रथमवारं दृष्टं यत् विपक्षः चर्चातः दूरं पलायितः। सः उक्तवान् यत् संसदीयलोकतन्त्रे विपक्षः सर्वकारं प्रति प्रश्नान् पृच्छति उत्तराणि च याचते, किन्तु अत्र विपक्षः चर्चातः दूरं पलायितः, सर्वकारश्च चर्चां कर्तुम् आह्वानं कुर्वन् आसीत्। एतावता प्रश्नकालः अपि प्रचलितुं न दत्तः। मन्त्रिणः उत्तरं श्रोतुम् अपि ते सज्जाः न आसन्।

एकस्य प्रश्नस्य उत्तरं ददन् सः उक्तवान् यत् लोकसभायां केवलम् एकं विधेयकम्—‘सार्वजनिकपरीक्षासु अनुचितमाध्यमानां निषेध-संशोधनविधेयकम्’—विहाय अन्यानि ११ विधेयकानि विना चर्चां पारितानि। तथापि राज्यसभायां कांग्रेसस्य एकं दलं विहाय अधिकांशसदस्याः चर्चायां भागं गृहीतवन्तः।

संसदीयकार्यमन्त्री कांग्रेसं प्रति व्यङ्ग्यं कुर्वन् उक्तवान् यत् कांग्रेसस्य बहवः सांसदाः अधुना चिन्तयितुम् आरब्धवन्तः यत् तेषां कार्यम् अधुना केवलं फलकानि प्रदर्शयितुं घोषणाः कर्तुं च अवशिष्टम् अस्ति। सः उक्तवान्, “कांग्रेसस्य नूतन-सांसदानां कृते मम दुःखं भवति। अहं संवेदनशीलः मनुष्यः अस्मि। कांग्रेसस्य सांसदानां पीडां ज्ञातुं शक्नोमि।” सः आशां प्रकटितवान् यत् संसदः शीतकालीनसत्रं किञ्चित् उत्तमरीत्या व्यतीतं भविष्यति।

संसदीयकार्यमन्त्रिणा संसदीयविषयाणां सकारात्मकवार्ताप्रसारणाय माध्यमान् प्रति धन्यवादः ज्ञापितः।

Hindusthan Samachar / Divya Ranjan