प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र सुभाषितम् लिखित्वा प्रतिकूलपरिस्थितिषु सफलतायाः मन्त्रं प्रदत्तवान्
नवदिल्ली, १३ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी यथापूर्वम् अद्य प्रातः ‘एक्स’ इत्यत्र सुभाषितं लिखित्वा प्रतिकूलपरिस्थितिषु सफलतायाः मन्त्रं प्रदत्तवान्। सः उक्तवान् यत् दृढसंकल्पेन, अथकपरिश्रमेण पुरुषार्थेन च कठिनपरिस्थितिष्वपि सफलतां प
2afd8b7eb03794b99b2d09d358fb5467_635716184.jpg


नवदिल्ली, १३ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी यथापूर्वम् अद्य प्रातः ‘एक्स’ इत्यत्र सुभाषितं लिखित्वा प्रतिकूलपरिस्थितिषु सफलतायाः मन्त्रं प्रदत्तवान्। सः उक्तवान् यत् दृढसंकल्पेन, अथकपरिश्रमेण पुरुषार्थेन च कठिनपरिस्थितिष्वपि सफलतां प्राप्तुं शक्यते।

सुभाषितरूपेण उल्लिखितः श्लोकः—दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥

महर्षिवाल्मीकिविरचितस्य रामायणस्य अयोध्याकाण्डस्य त्रयोविंशतितमसर्गस्य सप्तदशतमः श्लोकः अस्ति। महर्षि: वाल्मीकिः वर्णयति यत् यदा भगवान् श्रीरामः वनवासं प्राप्नोति, तदा लक्ष्मणः अत्यन्तं क्रुद्धो भवति। तदा सः दैवस्य अर्थात् भाग्यस्य आश्रयं त्यक्त्वा मनुष्यस्य पुरुषार्थं अर्थात् कर्मपरिश्रमं श्रेष्ठं प्रतिपादयन् एतद् वचनं कथयति।

प्रधानमन्त्रिणः ‘एक्स’ इत्यत्र सुभाषितस्य अर्थः अपि लिखितः अस्ति—

यः पुरुषः स्वदृढसंकल्पेन, परिश्रमेण पुरुषार्थेन च प्रतिकूलपरिस्थितीनामपि अनुकूलतां कर्तुं समर्थो भवति, सः जीवने विद्यमानाभिः बाधाभिः कदापि पराजितो न भवति, अपितु निरन्तरं प्रयत्नं कुर्वन् सफलतां प्राप्नोति।

Hindusthan Samachar / Divya Ranjan