Enter your Email Address to subscribe to our newsletters

लखनऊ, १३ अगस्तमासः (हि.स.)। बहुजनसमाजपार्टी इत्यस्याः राष्ट्रिया-ध्यक्षया मायावत्या गुरुवासरे आरोपः कृतः यत् विपक्षः सत्तापक्षश्च मिलित्वा एफसीआरए अर्थात् विदेशीयांशदान-विनियमन-संशोधन-विधेयकस्य राजनीतिकरणं कृतवन्तौ। अस्य कारणेन एतद् विधेयकं शीघ्रतया संयुक्त-संसदीय-समितिं प्रति प्रेषितम्। सा अवदत् यत् संसदः कार्यं न प्रचलति इति कारणेन सर्वकारः बहूनि महत्त्वपूर्णानि विधेयकानि विना चर्चामेव पारयितुं शक्नोति। एतत् सत्तापक्षस्य विपक्षस्य च परस्परमिश्रितम् इव दृश्यते।
मायावत्या गुरुवासरे ‘एक्स’ इति सामाजिकमाध्यमे प्रकाशिते सन्देशे लिखितं यत् एफसीआरए-संशोधन-विधेयकं सर्वकारेण अतिमहत्त्व-पूर्णम् इति कथयित्वा अन्यविधेयकानाम् इव तत्क्षणमेव पारयितुम् इच्छितम् आसीत्। किन्तु विपक्षस्य विरोधस्य कारणेन तथा संसदः मध्ये अस्मिन् विषये प्रारम्भिकचर्चाम् अकृत्वैव तत् विधेयकं ह्यः अत्यन्तं शीघ्रतया संयुक्तसंसदीयसमितिं प्रति प्रेषितम्।
सा अवदत् यत् कांग्रेस्-पार्टी तस्याः सहयोगीदलानि च एफसीआरए-संशोधनविधेयकं प्रत्यक्षतया अल्प-संख्यकविरोधि इति कथयित्वा विधेयकस्य प्रत्याहरणस्य आग्रहं कुर्वन्ति। अपरतः सर्वकारः विदेशीयनिधीनां उपयोगे कथितभ्रष्टाचारस्य नियन्त्रणाय अस्मिन् कठोरपरिवर्तनानि कर्तुम् इच्छति। एतेन स्पष्टं भवति यत् सत्तापक्षेन विपक्षेन च अस्य विधेयकस्य राजनीतिकरणम् अत्यधिकं कृतम् अस्ति।
मायावत्या उक्तं यत् यदा ह्यः विपक्षः अस्य विधेयकस्य प्रस्तुतिकरणसमये संसदः कार्यं प्रचलितुं दद्यात् तथा तस्य दोषान् प्रकाशयेत्, तर्हि सम्पूर्णदेशः तान् दोषान् ज्ञातुं शक्नोत्। किन्तु विपक्षः स्वहठानुसारं संसदः कार्यं प्रचलितुं न दत्तवान्। सा आरोपितवती यत् एवंविधानि बहूनि अन्यानि विधेयकानि अपि विपक्षेन संसदः कार्यं बाधितं कृतत्वात् सर्वकारेण कतिपयेषु क्षणेषु पारितानि, यानि विपक्षेण निवारयितव्यानि आसन्। विपक्षेन तत् न कृतम्, यस्य सम्पूर्णं लाभं सर्वकारः स्वपक्षे गृह्णाति। एतेन विपक्षस्य आन्तरिकमिश्रणम् अस्ति इति सन्देहः जायते, अथवा ‘जेन-जी’ इत्यस्य मतानां स्वार्थवशात् ते देशस्य अन्येषां विषयाणां प्रति सर्वथा ध्यानं न ददति। वर्तमानपरिस्थितौ ‘जेन-जी’ इत्यस्य समस्यासम्बद्धविषयं प्राथमिकतया स्वीकृत्य तैः जनहितसम्बद्धानाम् अन्येषाम् अपि विषयाणां महत्त्वं दातव्यम् आसीत्। तदनन्तरं तैः अयोध्यायां राममन्दिरस्य कथितचन्दादानस्य अनियमिततासम्बद्धः विषयः अपि संसदः मध्ये उत्थापनीयः आसीत्, किन्तु राजनैतिकस्वार्थवशात् विपक्षेण तमपि विषयं पृष्ठतः स्थापितम्।
बसपाप्रमुखा आह्वानं कुर्वती अवदत् यत् देशस्य जनाः वर्तमानकाले संसदः सत्रस्य समये अपि सत्तापक्षस्य विपक्षस्य च मध्ये प्रचलितायाः स्वकीय-राजनैतिक-स्वार्थ-सम्बद्धायाः संघर्षस्य विषये पूर्णतया सचेताः भवन्तु। एकमात्रम् आंबेडकरवादीं बहुजनसमाजपक्षं प्रति देशहिते सामान्यजनहिते च सम्बद्धाः भवन्तु, या ‘सर्वजनहिताय सर्वजनसुखाय’ इति नीतिसिद्धान्तयोः आधारेण पूर्णनिष्ठया ईमानदारीपूर्वकं च कार्यं करोति। एतदेव वर्तमानसमयस्य आवश्यकता अस्ति तथा सम्पूर्णसमाजस्य हिताय अपि उपयुक्तम् अस्ति।
Hindusthan Samachar / Divya Ranjan