Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ अगस्तमासः (हि.स.)। रेलमन्त्री अश्विनीवैष्णवः गुरुवासरे संसदीयकार्यमन्त्री अल्पसंख्यक-कार्यमन्त्री च किरेनरिजिजू तथा श्रम-रोजगारमन्त्री, युवकार्यक्रम-क्रीडामन्त्री च डॉ. मनसुखमाण्डविया इत्येतान् रेल-यानस्य ‘वार-रूम’ इत्यस्य कार्यप्रणालीम् अवबोधितवान्। अस्मिन् अवसरे मन्त्रिणौ जीवत्स्थानक-प्रसारणम्, कृत्रिमबुद्धि-आधारित-प्रणाल्यः तथा परिचालन-सम्बद्धान् दत्तांशान् माध्यमी-कृत्य रेलविभागस्य गतिविधीनां निरीक्षण-व्यवस्थां दृष्टवन्तौ।
रेलमन्त्रिणा उक्तं यत् ‘वार-रूम’ इत्यस्मात् रेलस्थानकानां प्रत्यक्षप्रसारणं द्रष्टुं शक्यते। अत्र मञ्चेषु, पदातिसेतुषु तथा स्थानकस्य बहिर्भागेषु सञ्चलमानाः क्रियाकलापाः अपि निरीक्षितुं शक्यन्ते। नवदिल्ली-स्थानकं तथा हजरत-निजामुद्दीन-स्थानकम् इव प्रमुख-स्थानकानां प्रत्यक्षप्रसारणं केन्द्रीय-स्थानात् एव निरीक्षितुं शक्यते।
अस्यां प्रणाल्याम् अधिकारिभ्यः कस्यचित् विशिष्टस्थानस्य स्थितिं सूक्ष्मतया अवलोकयितुं पृथक्-पृथक् चित्रग्राहक-प्रसारणानां विस्तारं कर्तुं सुविधा अपि प्रदत्ता अस्ति। कृत्रिमबुद्धि-आधारित-प्रणाली पूर्वनिर्धारित-सङ्केतानां आधारेण सूचनां दातुं शक्नोति यत् विशिष्टस्थाने किं घटितम्। अनेन अधिकारिणः घटनां शीघ्रतया अवगन्तुं तदनुसारं च कार्यवाहीं कर्तुं समर्थाः भवन्ति।
रेलयानस्य ‘वार-रूम’ इत्यस्य उपयोगः जनसङ्कुलसमयेषु, उत्सवेषु तथा अधिकयात्रिक-आवागमनावसरेषु विभिन्नस्थानकानां गतिविधीनां निरीक्षणार्थं कर्तुं शक्यते। अनेन यात्रिणां सङ्ख्यायाः तथा तेषाम् आवागमने जायमानपरिवर्तनानां निरीक्षणे साहाय्यं भवति।
एषा प्रणाली रेलयानानां गमनागमनस्य तथा तेषां विलम्बस्य अपि निरीक्षणं करोति। अधिकारिणः ज्ञातुं शक्नुवन्ति यत् का रेलयानसेवा विलम्बेन सञ्चरति तथा विलम्बस्य कारणं किम् अस्ति। उपलब्धसूचनानाम् आधारेण रेलयान-विभागस्य दलानि परिस्थितेः मूल्याङ्कनं कृत्वा आवश्यककार्यवाहीं कर्तुं शक्नुवन्ति, येन विलम्बस्य विस्तारं निरोद्धुं शक्यते।
उभौ केन्द्रीयमन्त्रिणौ रेलयानस्य ‘वार-रूम’ इत्यत्र जीवत्स्थानक-प्रसारणम्, कृत्रिमबुद्धि-आधारित-विश्लेषणम् तथा रेलपरिचालनसम्बद्ध-दत्तांशानां माध्यमेन रेलपरिचालनस्य निरीक्षणस्य सम्पूर्णप्रक्रियायाः प्रत्यक्षम् अवलोकनं कृतवन्तौ।
Hindusthan Samachar / Divya Ranjan