Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 13 अगस्तमासः (हि.स.)।विकासखण्डशिक्षाधिकारी राजपुरस्य अरविन्दगुप्तस्य गतसायंकाले उपचारसमये निधनम् अभवत्। अम्बिकापुरे सः सायं प्रायः सप्तवादने अन्तिमं श्वासं त्यक्तवान्। तस्य निधनस्य वार्तया शिक्षाविभागे तथा क्षेत्रे च शोकस्य वातावरणं व्याप्तम्।
अरविन्दगुप्तः राजपुरविकासखण्डे विकासखण्डशिक्षाधिकारीपदे कार्यरतः आसीत्। शिक्षाविभागे तस्य निधनस्य सूचना प्राप्तानन्तरं अधिकारिभिः कर्मचारिभिश्च तथा परिचितैः शोकः व्यक्तः। सर्वैः दिवंगतात्मनः शान्त्यर्थं प्रार्थना कृता।
तस्य निधनं प्रति शोकं व्यक्तं कुर्वद्भिः उक्तं यत् तस्य निधनं शिक्षाजगतः कृते अपूरणीया क्षतिः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani