राष्ट्रपतिना सङ्गीत-नाटक-अकादम्याः फैलोशिप-पुरस्काराश्च प्रदत्ताः
नवदिल्ली, १३ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मूः गुरुवासरे वर्षद्वयस्य २०२४-२०२५ इत्येतयोः कृते शतेभ्यः अधिकेभ्यः प्रख्यातेभ्यः कलाकारेभ्यः सङ्गीत-नाटक-अकादम्याः फैलोशिप्-सम्मानं तथा सङ्गीत-नाटक-अकादमी-पुरस्कारान् च प्रदत्तवती। अस्मिन् अ
राष्ट्रपति द्रौपदी मुर्मु गुरुवार को संगीत नाटक अकादमी पुरस्कार प्रदान करते हुए


नवदिल्ली, १३ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मूः गुरुवासरे वर्षद्वयस्य २०२४-२०२५ इत्येतयोः कृते शतेभ्यः अधिकेभ्यः प्रख्यातेभ्यः कलाकारेभ्यः सङ्गीत-नाटक-अकादम्याः फैलोशिप्-सम्मानं तथा सङ्गीत-नाटक-अकादमी-पुरस्कारान् च प्रदत्तवती। अस्मिन् अवसरे सा अवदत् यत् कलाकाराः भारतीय-परम्परायाः वाहकाः भवितुं सहैव अस्माकं सामूहिकस्मृतेः संरक्षकाः भविष्यदृष्टेः च स्रष्टारः सन्ति।

अस्मिन् अवसरे रामलाल-बरेठः, ए.वी. आनन्दः, रीता-गाङ्गुली, पुरु-दधेीचः, चित्तरञ्जन-ज्योतिषी, पसुमार्थी-रत्तैया-शर्मा तथा सुधरानी-रघुपतिः इत्येते सप्त कलाकाराः सङ्गीत-नाटक-अकादम्याः फैलोशिप-सम्मानेन अलङ्कृताः।

वर्षे २०२४ सङ्गीतस्य, नृत्यस्य, रङ्गमञ्चस्य, लोककलायाः जनजातीय-कलायाश्च सहितेषु विविधेषु क्षेत्रेषु ५४ कलाकाराः सङ्गीत-नाटक-अकादमी-पुरस्कारेण सम्मानिताः। एतेषु वंशीवादकः राकेश-चौरसिया, अभिनेता अरुण-नालवडे तथा लोकनर्तकी गुलाबी-सपेरा इत्यादयः कलाकाराः सम्मिलिताः सन्ति।

वर्षे २०२५ अपि विविधकलाविधाभिः सम्बद्धेभ्यः ५४ कलाकारभ्यः अकादमी-पुरस्काराः प्रदत्ताः। एतेषु भरतनाट्यम्-कलाकारा रोजा-कन्नन, कथक-कलया सम्बद्धः कृष्णमोहन-मिश्रमहाराजः, रङ्गमञ्च-निर्देशकः कपिलदेव-चन्द्र-कान्त-शुक्लः तथा लोकसङ्गीत-कलाकारः भेरूसिंह-चौहानः इत्यादयः कलाकाराः सम्मिलिताः सन्ति।

स्वीयसम्बोधने राष्ट्रपतिः अवदत् यत् अद्य सम्मानिताः कलाकाराः सामूहिकरूपेण देशस्य सांस्कृतिकं मानचित्रं प्रस्तुवन्ति। एतत् मानचित्रं देशस्य मृत्तिकया सम्बद्धाभिः कथाभिः गीतैश्च, विविधैः नृत्यैः उत्सवैश्च तथा शताब्दिभ्यः विकसितानां भाषाणां स्मृतिभिः निर्मितम् अस्ति।

सा अवदत् यत् देशे सङ्गीतस्य बह्व्यः परम्पराः, विविधाः नृत्यशैल्यः तथा लोक-रङ्गमञ्चस्य असङ्ख्याः विधाः विद्यन्ते। भारतीयसंस्कृतेः मूलानि प्रकृत्या सह गभीररूपेण सम्बद्धानि सन्ति। देशस्य विविधासु खाद्यपरम्परासु, परिधानेषु, नृत्येषु सङ्गीतेषु च प्रकृतेः प्रेरणा दृश्यते। कलाकाराः पक्षिणां कलरवात्, निर्झराणां ध्वनेः, वृक्षौषधिभ्यः, मेघेभ्यः नदिभ्यश्च प्रेरणां प्राप्य स्वकलायाः अभिव्यक्तिं कुर्वन्ति। विविधतायाः एकतायाश्च एषः सम्बन्धः भारतीयकलानां प्रमुखासु शक्तिषु अन्यतमः अस्ति।

राष्ट्रपतिः अवदत् यत् देशस्य विविधकलाविधीनां संरक्षणे विकासे च गुरु-शिष्यपरम्परायाः महत्त्वपूर्णा भूमिका अस्ति। सा अवदत् यत् कलाक्षेत्रे गुरवः सर्वाधिकमहत्त्वपूर्णग्रन्थवत् भवन्ति। तीव्रतया परिवर्तमानकाले अनेकाः लोककलाविधाः लुप्तप्रायत्वस्य संकटं सम्मुखीकुर्वन्ति। अतः एतासां कलानां तथ्यकरणेन सह ताः जीविताः स्थापयितुं विशेषप्रयत्नाः करणीयाः।

सा सङ्गीत-नाटक-अकादम्या अस्यैव उद्देशाय आयोज्यमानस्य ‘कला-दीक्षा’ कार्यक्रमस्य प्रशंसां कृत्वा वरिष्ठ-कलाकारान् अग्रिमवंशं सिद्धं कर्तुं व्यवस्थितप्रयत्नान् कर्तुम् आहूतवती।

राष्ट्रपतिः अवदत् यत् प्रकृतिः कलायाः मूल्यानां संवेदनानां च माध्यमेन जीवनं समृद्धं कर्तुं सर्वाधिकं स्वाभाविकं प्रशिक्षणस्थानम् अस्ति। लोककलाः जनजातीयकलाश्च जीवनं प्रति स्वाभाविकम् उत्साहं प्रकृत्या सह गभीरं सम्बन्धं च प्रदर्शयन्ति। एतासु कलासु समुदायस्य स्मृतिः सामूहिकचेतना च सहजतया अभिव्यज्यते। अत एव लोककलाः भारतस्य सांस्कृतिक-परिचयस्य महत्त्वपूर्णा आधारशिला सन्ति।

राष्ट्रपतिः सङ्गीत-नाटक-अकादम्याः फैलोशिप-सम्मानं पुरस्कारांश्च प्राप्तवद्भ्यः सर्वेभ्यः कलाकारेभ्यः शुभकामनाः प्रदत्तवती। सा अवदत् यत् भारतीयपरम्परायाः वाहकरूपेण एते कलाकाराः अस्माकं सामूहिकस्मृतेः संरक्षकाः भवितुं सह भविष्यदृष्टेः निर्मातारः अपि सन्ति।

सा अवदत् यत् सङ्गीत-नाटक-अकादमी भारतस्य ‘सॉफ्ट-पावर’ इत्यस्य महत्त्व-पूर्णकेन्द्ररूपेण मन्यते। राष्ट्रपतिः विश्वासं व्यक्तवती यत् अकादमी अग्रिमेष्वपि कालेषु भारतस्य सांस्कृतिकशक्त्या सम्पूर्णं विश्वं समृद्धं करिष्यति।

/ अंशु गुप्ता