Enter your Email Address to subscribe to our newsletters

दीर्घप्रक्रियायाः अनन्तरं प्राप्तं महत् समाधानम्, जनजातीयबालिकायै प्राप्तं न्यायम्
रायपुरम्, १३ अगस्तमासः (हि.स.)। छत्तीसगढराज्यस्य बालाधिकार-संरक्षणायोगस्य अध्यक्षा डॉ. वर्णिका शर्मा इत्यस्याः संवेदनशीलप्रयासेन सतत् प्रयत्नेन च गम्भीरव्याधिना पीडितायाः एकस्याः बालिकायाः जीवने नवाशायाः सञ्चारः जातः। यस्याः बालिकायाः शरीरं शनैः शनैः पाषाणमिव भवति स्म तथा च यस्याः अवस्था अत्यन्तं गम्भीरा आसीत्, तस्याः स्वास्थ्ये एम्स-रायपुरे उपचारा-नन्तरम् अधुना प्रायः ८० प्रतिशतं सुधारः अभवत्।
बालिकायाः गम्भीरस्वास्थ्यावस्थायाः सूचना प्राप्तानन्तरं अध्यक्षा डॉ. वर्णिका शर्मा विषयं गम्भीरतया स्वीकृत्य तस्याः उत्तमोपचाराय आवश्यकाः प्रयत्ना: कृतवती। सा दन्तेवाडाजनपदस्य जनपदाधिकारीणा सह चर्चां कृत्वा बालिकायाः उपचारस्य, परिचर्यायाः आवश्यकव्यवस्थानां च सुनिश्चिततायै आग्रहं कृतवती।
अध्यक्षा डॉ. शर्मण: प्रयासेन दन्तेवाडाजनपदस्य जनपदाधिकारिणा बालिकायाः परिचर्यायै आवश्यक-समन्वयाय च सम्बन्धिताधिकारिभ्यः दायित्वं प्रदत्तम्। जनपदप्रशासनेन संवेदनशीलतया दायित्वस्य निर्वहणं कृत्वा बालिकायै उत्तमोपचारस्य उपलब्ध्यर्थम् आवश्यकं सहयोगं समन्वयं च सुनिश्चितम्।
ततः परं बालिकायै उत्तमविशेषज्ञ-चिकित्सासुविधां प्रदातुं रायपुरस्थिते एम्स-चिकित्सालये उपचारस्य व्यवस्था सुनिश्चिता। एम्स्-संस्थायाः विशेषज्ञ-चिकित्सकैः बालिकायाः गम्भीरावस्थां दृष्ट्वा निरन्तरम् उपचारः, परीक्षणानि आवश्यकचिकित्सकीय-परिचर्या च कृता।
एम्स्-रायपुरस्य त्वचारोगविभागाध्यक्षः डॉ. सत्यकी गाङ्गुली तथा डॉ. नम्रता छाबडा इत्यादिभिः बहुविषयकचिकित्सकदलैः बालिकायाः अवस्थायाः विस्तृत-मूल्याङ्कनं कृत्वा तस्याः आवश्यकता-नुसारं क्रमबद्धोपचारयोजना निर्मिता। उपचारकाले त्वचासम्बद्ध-समस्याभिः सह बालिकायाः समग्रस्वास्थ्यं, पोषणम्, सङ्क्रमणनिवारणम् अन्ये च चिकित्सकीयपक्षाः अपि निरन्तरं दृष्टाः।
एम्स-चिकित्सकानां अथकप्रयासैः, दन्तेवाडाजनपदप्रशासनस्य सहयोगेन तथा अध्यक्षा डॉ. वर्णिका शर्मण: सततप्रयासेन निरीक्षणेन च बालिकायाः स्वास्थ्ये उल्लेखनीयंं सकारात्मकं परिवर्तनं जातम्। वर्तमानकाले तस्याः स्वास्थ्ये प्रायः ८० प्रतिशतं सुधारः अभवत्, यः तस्याः परिजनानां उपचारसम्बद्धानां च सर्वेषां कृते अत्यन्तम् उत्साहवर्धकः अस्ति।
अध्यक्षा डॉ. वर्णिका शर्मा निरन्तरं बालिकायाः स्वास्थ्यप्रगतिविषये सूचनां प्राप्तवती आसीत् तथा सम्बन्धितैः चिकित्सकैः अधिकारिभिश्च सह समन्वयं स्थापयन्ती आसीत्। तस्याः उद्देश्यम् आसीत् यत् गम्भीरव्याधिना पीडितायै अस्यै बालिकायै समये उत्तमोपचारः, पोषणम् आवश्यकपरिचर्या च प्राप्नुयात् तथा सा स्वस्थतां प्राप्य सामान्यजीवनं प्रति प्रत्यागच्छेत्।
अध्यक्षा डॉ. वर्णिका शर्मा गुरुवासरे उक्तवती— “प्रत्येकं बालकं उत्तमस्वास्थ्येन, सुरक्षया सम्मानेन च जीवनं यापयितुं अधिकारवान् अस्ति। अस्याः बालिकायाः उपचारे एम्स-चिकित्सकैः यत् समर्पणं अथकप्रयासश्च कृतः, तत् अत्यन्तं प्रशंसनीयम् अस्ति। दन्तेवाडाजनपदस्य जनपदाधिकारी तथा जनपदप्रशासनेन अपि बालिकायाः परिचर्यायै आवश्यकव्यवस्थाः सुनिश्चित्य संवेदनशीलतया सहयोगः कृतः। बालिकायाः स्वास्थ्ये ८० प्रतिशतं सुधारः अस्माकं सर्वेषां कृते अत्यन्तं सन्तोषजनकः उत्साहवर्धकश्च अस्ति। अस्माकं प्रयासः अस्ति यत् सा पूर्णतया स्वस्थतां प्राप्य सामान्यजीवनं प्रति प्रत्यागच्छेत् तथा तस्याः मुखे स्मितं सदैव विराजेत्।”
गम्भीरव्याधिना पीडितायाः अस्याः बालिकायाः स्वास्थ्ये जातः अयं सुधारः न केवलं तस्याः परिवारस्य कृते राहत्-हर्षस्य विषयः अस्ति, अपितु संवेदनशीलप्रयासेन, समये विशेषज्ञचिकित्सया, प्रशासनिक-सहयोगेन सतत्प्रयत्नैश्च कठिन-परिस्थितिष्वपि आशायाः नूतनः मार्गः निर्मातुं शक्यते इत्यस्य उदाहरणम् अपि अस्ति।
Hindusthan Samachar / Divya Ranjan