विश्वबैड्मिण्टन-क्रीडाप्रतियोगितायाः माध्यमेन नववंशस्य क्रीडकानां कृते प्राप्स्यते महत्त्वपूर्णः मञ्चः - तृप्तिः मुर्गुंडे
नवदिल्ली, १३ अगस्तमासः (हि.स.)। भारतस्य पूर्व-बैड्मिण्टन-क्रीडिका तृप्तिः मुर्गुंडे इत्यस्याः मतम् अस्ति यत् सप्तदशवर्षेभ्यः परं देशे विश्वबैड्मिण्टन-क्रीडाप्रतियोगितायाः पुनरागमनं विगते दशके भारतीयक्रीडाक्षेत्रे अभवत् उत्कृष्ट-प्रगतिं प्रदर्शयति।
भारत की पूर्व बैडमिंटन खिलाड़ी तृप्ति मुर्गुंडे


नवदिल्ली, १३ अगस्तमासः (हि.स.)। भारतस्य पूर्व-बैड्मिण्टन-क्रीडिका तृप्तिः मुर्गुंडे इत्यस्याः मतम् अस्ति यत् सप्तदशवर्षेभ्यः परं देशे विश्वबैड्मिण्टन-क्रीडाप्रतियोगितायाः पुनरागमनं विगते दशके भारतीयक्रीडाक्षेत्रे अभवत् उत्कृष्ट-प्रगतिं प्रदर्शयति। तस्याः मतानुसारं दिल्ली इत्यत्र आयोज्यमाना एषा प्रतिष्ठिता प्रतियोगिता भारतीयक्रीडकाणां नववंशाय नवीनम् उत्साहं आत्मविश्वासं च प्रदास्यति।

बीएडब्ल्यूएफ विश्वचैम्पियनशिप २०२६ इति प्रतियोगिता अगस्तमासस्य १७ दिनाङ्कात् नवदिल्ली इत्यस्य इन्दिरागान्धी-क्रीडाङ्गणे आयोजयिष्यते। भारतं द्वितीयवारम् अस्याः प्रतिष्ठितायाः प्रतियोगितायाः आतिथ्यं करिष्यति। पूर्वं २००९ तमे वर्षे हैदराबादनगरे विश्वचैम्पियनशिपस्पर्धा आयोजिता आसीत्। मुर्गुंडे सप्तदशवर्षपूर्वं हैदराबाद इत्यत्र आयोजिता विश्वचैम्पियन-शिपस्पर्धायां भारतस्य प्रतिनिधित्वं कृतवती आसीत्।

मुर्गुंडे साई-माध्यमेन उक्तवती, “सर्वेभ्यः भारतीयक्रीडाक्षेत्रसम्बद्धेभ्यः जनेभ्यः एषः अत्यन्तं गौरवस्य क्षणः अस्ति यत् सप्तदशवर्षेभ्यः परं पुनः अस्याः प्रतियोगितायाः आतिथ्यं प्राप्तम्। विशेषतः विगतेषु अष्टतः दशवर्षेषु भारतीयक्रीडाक्षेत्रे उत्कृष्टं प्रदर्शनं दृष्टम्। वयं विभिन्नासु प्रतियोगितासु श्रेष्ठान् परिणामान् प्राप्तवन्तः, तथा च अनेकेषाम् अन्ताराष्ट्रीय-क्रीडाप्रतियोगितानाम् आयोजनस्य अवसरः अपि अस्मभ्यं प्राप्तः। अस्मिन् समये एतत् अत्यन्तं महत्त्वपूर्णं आवश्यकं च अस्ति।”

सा उक्तवती यत् विश्वस्तरीय-क्रीडाप्रतियोगितानाम् भारतदेशे निरन्तर-मायोजनस्य प्रभावः केवलं बैड्मिण्टन-क्रीडायां सीमितः नास्ति, अपितु अनेन सम्पूर्णं क्रीडातन्त्रं सुदृढं भवति। “वयं माननीयात् क्रीडामन्त्रिणः डॉ. मनसुख-माण्डवियात् अपि श्रुतवन्तः यत् सर्वेषु क्रीडाप्रकारेषु अन्ताराष्ट्रिय-प्रतियोगिताः भारतदेशे आयोजयितुं वयं कियद् उत्सुकाः स्मः।”

२००९ तमे वर्षे विश्वचैम्पियनशिप-प्रतियोगितायां भागं गृहीतवती मुर्गुंडे मन्यते यत् स्वदेशे विश्वचैम्पियनशिप-प्रतियोगितायां क्रीडितुं वर्तमानभारतीय-क्रीडकाणां, विशेषतः युवाक्रीडकाणां कृते, उत्कृष्टः अवसरः अस्ति।

सा उक्तवती, “उद्भवनशीलानां क्रीडकाणां कृते एषः सर्वश्रेष्ठः मञ्चः अस्ति। ते स्वस्यैव गृहप्राङ्गणे स्वप्रतिभां प्रदर्शयितुं श्रेष्ठम् अवसरं प्राप्नुवन्ति।”

मुर्गुंडे स्वदेशीय-दर्शकानां समर्थनस्य महत्त्वमपि रेखाङ्कितवती। सा उक्तवती, “यदा भवन्तः स्वदेशे क्रीडन्ति तदा वातावरणं सर्वथा भिन्नं भवति। वयं दृष्टवन्तः यत् यदा भारत-ओपन-प्रतियोगिता अथवा भारते काचित् अन्यतमा बृहती प्रतियोगिता भवति, तदा तस्याः सदैव महत्त्वपूर्णः प्रभावः भवति।”

सा अग्रे उक्तवती, “युवाक्रीडकाणां कृते स्वदेशे एतादृशीनां प्रतियोगितानां अधिकाधिकम् आयोजनं सुलभतरं हितकरं च भवति। तस्य प्रभावः दीर्घकालपर्यन्तं भवति।”

२००६ तमे वर्षे राष्ट्रमण्डलक्रीडासु पदकविजेत्री मुर्गुंडे इत्यस्याः मतानुसारं दिल्ली इत्यत्र आयोज्यमाना विश्वचैम्पियनशिपस्पर्धा भारतीय-बैड्मिण्टन इत्यस्य नववंशाय अनुभवस्य, आत्मविश्वासस्य तथा अन्ताराष्ट्रियस्तरे स्वप्रतिभायाः प्रमाणनस्य महत्त्वपूर्णः अवसरः सिद्धं भवितुं शक्नोति।

Hindusthan Samachar / Divya Ranjan