Enter your Email Address to subscribe to our newsletters

कोयम्बत्तूरम्, १३ अगस्तमासः (हि.स.)। विश्वगजदिवसे तमिलनाडु-केरलसीमायां रेलयानस्य आघातेन एका हस्तिनी तथा एकः शावकः च मृतौ। रेलयानस्य तीव्रगतिः अस्याः दुर्घटनायाः कारणमासीद्वा इति दिशि वनविभागस्य अधिकारिभिः अन्वेषणं क्रियते। इयं दुर्घटना केरलस्य पालक्काडजनपदस्य वालयरप्रदेशे बुधवासरे (१२ अगस्त) रात्रौ सार्धैका-दशवादने अभवत्।
ज्ञातं यत् चतुर्णां गजानां समूहः रेलमार्गं पारयितुं प्रयतमानः आसीत्। तस्मिन्नेव समये तत्र आगतस्य मङ्गलूरु-एक्स्प्रेस-रेलयानस्य आघातेन गजानां समूहः पीडितः। रेलयानस्य यन्त्रस्य चक्रेषु बद्ध्वा हस्तिनी तथा शावकः च मृतौ। कश्चित् जनः अस्याः घटनायाः सूचनां वनविभागाय दत्तवान्। ततः वालयरवनविभागस्य अधिकारिणः तथा पालक्काडरेलविभागस्य अधिकारिणः घटनास्थलं प्राप्तवन्तः। शवौ पोकेलेनयन्त्रस्य साहाय्येन अपसारितौ। दुर्घटनायाः कारणेन तमिलनाडु-केरलयोः मध्ये महत्त्वपूर्णाः रेलसेवाः एकहोराधिकं यावत् प्रभाविताः अभवन्।
तदनन्तरं ‘बी’ रेलमार्गेण केरलतः कोयम्बत्तूरं प्रति आगच्छन्तीनां रेलयानानां परिचालनं अस्थायिरूपेण स्थगितम्। तेन मार्गेण गन्तव्यानि रेलयानानि ‘ए’ रेलमार्गेण प्रेषितानि। पूर्वमपि नवम्बरमासे २०२१ तमे वर्षे अस्यैव मङ्गलूरु-एक्स्प्रेस-रेलयानस्य आघातेन गर्भवतीहस्तिनी-सहिताः त्रयः गजाः अस्मिन्नेव प्रदेशे मृताः आसन्। वन्यजीवप्रेमिभिः अस्याः दुर्घटनायाः विषये गहनं दुःखं प्रकटितम्।
वन्यजीवकार्यकर्तारः अवदन्— “तमिल-नाडुराज्यस्य वनप्रदेशेषु कृत्रिम-बुद्धिमत्तायुक्तैः कैमेरा इत्येतैः वनात् बहिः आगच्छतां गजानां निरीक्षणं क्रियते तथा च तान् पुनः वनं प्रति प्रेषयितुं प्रयत्नः क्रियते। यदा गजाः रेलमार्गं पारयन्ति, तदा सञ्चेतना प्रसार्यते तथा च गजान् रेलयानस्य आघातात् रक्षितुं प्रयत्नः क्रियते। एतादृशी व्यवस्था केरलेऽपि वनप्रदेशेषु कार्यान्विता भवितव्या।”
दुर्घटनास्थलात् प्रायः त्रिशतमीटरपरिमिते दूरे एव तमिलनाडुराज्यस्य सीमा अस्ति। तमिलनाडुराज्यस्य वनप्रदेशस्य विषये यदि वदामः, तर्हि मदुक्करैवनपरिक्षेत्रे रेल-मार्गस्य उभयतः षोडशकोटिरूप्यकाणां व्ययेन कृत्रिमबुद्धिमत्तायुक्तैः कैमेरा इत्येतैः तथा च आकाशीयैः ड्रोन-कैमेरा इत्येतैः गजानां गतिविधीनां निरीक्षणं क्रियते। तस्य परिणामस्वरूपं तमिलनाडुराज्यस्य वनप्रदेशे रेलयानस्य आघातेन गजानां मृत्योः घटनाः बहुशः न्यूनीभूताः सन्ति।
कोयम्बत्तूरतः केरलं प्रति पोथनूर-वालयरप्रदेशाभ्यां गम्यमानानि रेल-यानानि मदुक्करैवनप्रदेशं पारयन्ति। अस्मिन् मार्गे रेलयानानां परिचालनाय ‘ए’ तथा ‘बी’ इति नामभ्यां द्वौ रेलमार्गौ निर्मितौ स्तः। तयोः ‘ए’ रेलमार्गः २.९ किलोमीटरपर्यन्तं तथा ‘बी’ रेलमार्गः ४.१५ किलोमीटरपर्यन्तं वनप्रदेशस्य अन्तः स्थितौ स्तः। तथैव केरलस्य वालयरतः कञ्जिकोडपर्यन्तमपि रेलमार्गः वनप्रदेशं भित्त्वा गच्छति।
मदुक्करैतः कञ्जिकोडपर्यन्ते प्रदेशे विगतेषु विंशतिवर्षेषु रेलयानस्य आघातेन पञ्चत्रिंशत् वन्यगजाः मृताः सन्ति। एताः घटनाः निवारयितुं पालक्काडरेलप्रशासनं तथा वनविभागः विविधान् उपायान् क्रियान्वयति। वन्यगजानां अधिक-सञ्चारयुक्ते मदुक्करै-‘बी’ रेलमार्गे वालयर-एट्टिमडैयोः मध्ये द्वयोः स्थलेषु अधोमार्गाः निर्मिताः सन्ति। तदतिरिक्तं द्वादश निरीक्षणमञ्चाः स्थापिताः तथा चतुर्विंशतिः कृत्रिमबुद्धिमत्तायुक्ताः कैमेरा इत्यादयः स्थापिताः सन्ति। एतैः ७.०५ किलोमीटरपरिमितस्य प्रदेशस्य निरीक्षणं क्रियते।
Hindusthan Samachar / Divya Ranjan