हुतात्मनां सम्माने गूंजितः सीवानः, पुष्पांजलिम अर्पयित्वा गृहीत्वा राष्ट्रसेवायाः संकल्पः
सीवानः, 13 अगस्तमासः (हि.स.)। स्वातन्त्रतादिवसस्य पूर्वसन्ध्यायां गुरुवासरे सीवाननगरस्थिते शहीदसरायस्मारके अमरहुतात्मनां सम्मानार्थं श्रद्धाञ्जलिकार्यक्रमस्य आयोजनं कृतम्। राष्ट्रिययुवजनजागरणसेवासंस्थानस्य संयोजकस्य देवेन्द्रगुप्तस्य संयोजने विग
शहीद स्मारक के समीप शहीदों के सम्मान में नारे लगाते लोग


सीवानः, 13 अगस्तमासः (हि.स.)।

स्वातन्त्रतादिवसस्य पूर्वसन्ध्यायां गुरुवासरे सीवाननगरस्थिते शहीदसरायस्मारके अमरहुतात्मनां सम्मानार्थं श्रद्धाञ्जलिकार्यक्रमस्य आयोजनं कृतम्। राष्ट्रिययुवजनजागरणसेवासंस्थानस्य संयोजकस्य देवेन्द्रगुप्तस्य संयोजने विगतद्विदशकात् निरन्तरम् आयोज्यमानः अयं कार्यक्रमः अस्मिन् वर्षेऽपि हर्षोल्लासेन श्रद्धया च आचरितः।

प्रातः प्रायः नववादने शहीदस्मारके शहीदपरिवाराणां गणमान्यसदस्याः तथा नगरस्य प्रबुद्धनागरिकाः एकत्रिताः। तैः शहीदस्मारके पुष्पाञ्जलिः समर्पिता तथा तेषां बलिदानं शतशः प्रणम्य श्रद्धया स्मरणं कृतम्।

रामदेवविचारमञ्चस्य जिलासंयोजकः अभिषेककुमारसिंहः अवदत् यत् अस्मिन् अवसरे सम्पूर्णजनपदस्य अमरहुतात्मभ्यः पुष्पाञ्जलिः समर्प्य ते श्रद्धापूर्वकं स्मृताः। तेन शहीदसरायां निरन्तरं भव्यस्य गरिमापूर्णस्य च आयोजनस्य कृते कार्यक्रमसंयोजकाय देवेन्द्रगुप्ताय साधुवादः प्रदत्तः। सः अवदत् यत् शहीदानां त्यागः बलिदानं च समाजस्य आगामिसंततेश्च कृते प्रेरणास्रोतः अस्ति।

कार्यक्रमसंयोजकः देवेन्द्रगुप्तः अवदत् यत् येषाम् अमरशहीदानां सम्मानार्थं कार्यक्रमस्य आयोजनं क्रियते, ते यदा शहीदाः अभवन् तदा युवानः आसन्। देशस्य प्रति समर्पणस्य, त्यागस्य कर्तव्यभावनायाश्च प्रेरणया ते स्वसर्वस्वं राष्ट्राय समर्पितवन्तः।

अद्य अत्र उपस्थितैः सर्वैः जनैः सङ्कल्पः करणीयः यत् अमरशहीदानां बलिदानं व्यर्थं न गमिष्यति। देशहिते स्वकर्तव्यस्य निर्वहणं कुर्वद्भिः आवश्यकतायां राष्ट्राय स्वात्मानं समर्पयितुं सर्वदा तत्परैः भवितव्यम्। तदैव भारतं सम्पूर्णविश्वे अग्रणीराष्ट्ररूपेण प्रतिष्ठितुं शक्नोति।

कार्यक्रमस्य समये शहीदस्मारकपरिसरः ‘भारतमातायै जयः’ तथा ‘वन्दे मातरम्’ इति घोषैः गुञ्जितः। उपस्थितैः जनैः ‘शहीद बच्चन प्रसाद अमरः भवतु’, ‘शहीद छठ्ठु गिरी अमरः भवतु’ तथा ‘शहीद झगरू साह अमरः भवतु’ इति गगनभेदीघोषान् कृत्वा अमरहुतात्मनां प्रति श्रद्धाञ्जलिः समर्पिता।

---------------