स्वतंत्रता दिवसे 14 आईपीएस अधिकारिणः पदकैः सम्मानेष्यन्ते मुख्यमंत्रिणा शुभेंदु अधिकारिणा
कोलकाता, 14 अगस्तमासः (हि. स.)।कर्तव्यस्य प्रति विशेषयोगदानस्य कृते प्रतिवर्षमिव अस्मिन् वर्षेऽपि स्वातन्त्र्यदिवसस्य अवसरे पुलिसाधिकारिभ्यः पदकैः सम्मानः प्रदास्यते। आगामिनि शनिवासरे अशीतितमे स्वातन्त्र्यदिवसस्य अवसरे मुख्यमन्त्रिणा शुभेन्द्वधिकार
दमयंती सेन


कोलकाता, 14 अगस्तमासः (हि. स.)।कर्तव्यस्य प्रति विशेषयोगदानस्य कृते प्रतिवर्षमिव अस्मिन् वर्षेऽपि स्वातन्त्र्यदिवसस्य अवसरे पुलिसाधिकारिभ्यः पदकैः सम्मानः प्रदास्यते। आगामिनि शनिवासरे अशीतितमे स्वातन्त्र्यदिवसस्य अवसरे मुख्यमन्त्रिणा शुभेन्द्वधिकारीणा राज्यस्य चतुर्दश आईपीएस अधिकारिणः सम्मानिताः भविष्यन्ति। तेषु षडधिकारिभ्यः असाधारणयोगदानस्य कृते, अन्येभ्यश्च अधिकारिभ्यः प्रशंसनीयसेवायै सम्मानः प्रदास्यते।

असाधारणयोगदानस्य कृते दमयन्तीसेन, अजयकुमार, नीरजकुमारसिंह, के. जयरमन, प्रणबकुमारः कुणालअग्रवालश्च मुख्यमन्त्रिपदकेन सम्मानिताः भविष्यन्ति।

प्रशंसनीययोगदानस्य कृते प्रेसिडेन्सी परिक्षेत्रस्य महानिरीक्षकः कंकरप्रसादबारुई, चन्दननगरस्य पुलिसायुक्तः सुनीलकुमारयादवः, विधाननगरस्य पुलिसायुक्तः राठौर अमितकुमारभारतः तथा कोलकातानगरस्य संयुक्तपुलिसायुक्तः यातायातविभागस्य सूर्यप्रतापयादवश्च पदकैः सम्मानिताः भविष्यन्ति।

तदतिरिक्तं पूर्वमेदिनीपुरस्य पुलिसाधीक्षकः अंशुमानसाहः, पूर्वबर्धमानस्य पुलिसाधीक्षिका पुष्पा तथा मुर्शिदाबादपुलिसजनपदस्य पुलिसाधीक्षकः सचिनमक्करः अपि प्रशंसनीयसेवायै सम्मानिताः भविष्यन्ति। बारुईपुरपुलिसजनपदस्य पुलिसाधीक्षकः अरविन्दकुमारआनन्दः अपि अस्य सम्मानस्य कृते चयनितः अस्ति।

स्वातन्त्र्यदिवससमारोहस्य अवसरे एतेभ्यः पुलिसाधिकारिभ्यः तेषां उल्लेखनीयकार्यस्य कर्तव्यनिष्ठायाश्च कृते मुख्यमन्त्रिणा पदकानि प्रदास्यन्ते।

Hindusthan Samachar / Dheeraj Maithani