Enter your Email Address to subscribe to our newsletters


पटना, १४ अगस्तमासः (हि.स.)। ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं केन्द्रीय-गृहराज्यमन्त्री नित्यानन्दरायस्य नेतृत्वे शुक्रवासरे उजियारपुर-लोक-सभाक्षेत्रस्य मोहिउद्दीननगर-विधान-सभाक्षेत्रात् मोरवा-विधानसभा-क्षेत्रपर्यन्तं त्रिवर्ण-ध्वजयात्रा आयोजिता। यात्रायां बहुसंख्याकाः कार्यकर्तारः, युवानः राष्ट्रप्रेमिणश्च मोटरसाइकिल-यानेषु आरूढाः सन्तः भागं गृहीतवन्तः।
हस्तेषु त्रिवर्णध्वजं धृत्वा यात्रायां निर्गताः जनाः सम्पूर्णमार्गे देशभक्तिपरान् घोषान् अघोषयन्। ‘भारत माता की जय’ तथा ‘वन्दे मातरम्’ इत्येतयोः उद्घोषैः सम्पूर्णं वातावरणं गुञ्जितम्। यात्रायाः अवधौ बहुसंख्यकाः जनाः त्रिवर्णध्वजेन सह स्वकीयां सहभागितां प्रदर्शितवन्तः।
अस्मिन् अवसरे केन्द्रीयगृहराज्यमन्त्री नित्यानन्दरायः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः आह्वानेन ‘हर घर तिरंगा’ अभियानं जनसहभागितायाः सशक्तम् अभियानं जातम् अस्ति। इदम् अभियानं राष्ट्रभक्तेः, राष्ट्रियैकतायाः अखण्डतायाश्च भावनां जनसामान्यं प्रति प्रसारयितुं कार्यं करोति।
सः अवदत् यत् त्रिवर्णध्वजस्य सम्मानस्य राष्ट्रगौरवस्य च भावनया समाजस्य प्रत्येकं वर्गः उत्साहपूर्वकं सम्बध्यते। त्रिवर्णध्वजः केवलं त्रयाणां वर्णानां ध्वजः नास्ति, अपि तु सः भारतीयानां हृदयस्पन्दनस्य, मानमर्यादायाः, गौरवस्य, स्वाभिमानस्य वीराणां च बलिदानस्य अमरस्य स्मृतेः प्रतीकः अस्ति।
नित्यानन्दरायः देशवासिभ्यः स्वातन्त्र्य-दिवसस्य अवसरे स्वकीयेषु गृहेषु त्रिवर्णध्वजं आरोपयितुं आह्वानं कृतवान्। सः जनान् प्रधानमन्त्रिण: नरेन्द्रमोदिनः विकसितस्य, आत्मनिर्भरस्य सशक्तस्य च भारतस्य निर्माणे स्वकीयां भूमिकां निर्वोढुं सङ्कल्पं कर्तुम् अपि आहूतवान्।
केन्द्रीयमन्त्री अवदत् यत् राष्ट्रीयपर्व देशस्य एकताम् अखण्डतां च सुदृढीकर्तुं सह नागरिकान् राष्ट्रं प्रति स्वकीय-दायित्वानां स्मरणं कारयितुम् अपि अवसरः अस्ति।
त्रिवर्णध्वजयात्रायां दलस्य प्रदेशमहामन्त्री धनराजशर्मा, समस्तीपुर-पश्चिमस्य जनपदाध्यक्षः शशिधर: झा, मोहिउद्दीन-नगरस्य विधायकः राजेशसिंहः, रोसडायाः विधायकः वीरेन्द्रसिंहः, विधान-परिषद्सदस्यः तरुणसिंहः इत्यादयः बहुसंख्याकाः कार्यकर्तारः स्थानीयजनाश्च सम्मिलिताः।
Hindusthan Samachar / Divya Ranjan