नाहं पूर्वमपि भीतः, न चाधुना भीतोऽस्मि - सुखबीरसिंहबादलः
नांदेडे अभिहत्यायाः अनन्तरं सुखबादलेन प्रतिक्रिया प्रदत्ता नांदेडम्, १४ अगस्तमासः (हि.स.)। महाराष्ट्रस्य नांदेडस्थिते सचखण्ड-श्रीहुजूरसाहिब-गुरुद्वारे गुरुवासरे अभिहत्यायाः घटनायाः अनन्तरं पंजाबस्य पूर्वोपमुख्यमन्त्री शिरोमणि-अकाली-दलस्य अध्यक्षः
सुखबीर सिंग बादल (फाईल फोटो)


नांदेडे अभिहत्यायाः अनन्तरं सुखबादलेन प्रतिक्रिया प्रदत्ता

नांदेडम्, १४ अगस्तमासः (हि.स.)। महाराष्ट्रस्य नांदेडस्थिते सचखण्ड-श्रीहुजूरसाहिब-गुरुद्वारे गुरुवासरे अभिहत्यायाः घटनायाः अनन्तरं पंजाबस्य पूर्वोपमुख्यमन्त्री शिरोमणि-अकाली-दलस्य अध्यक्षः च सुखबीर-सिंहबादलः शुक्रवासरे चिकित्सालयात् विमुक्तः। चिकित्सालयात् बहिः आगत्य बादलः अवदत्— “नाहं पूर्वमपि भीतः, न चाधुना भीतोऽस्मि।”

अस्मिन् अवसरे सुखबादलः अवदत् यत् कतिपयजनानां उद्देश्यं पंजाबस्य परिस्थितिषु नियन्त्रणं प्राप्तुं राज्यस्य च शान्तिं भङ्गं कर्तुम् अस्ति। सः अवदत् यत् अकालीदलं पंजाबस्य भ्रातृत्वस्य, गौरवस्य, साम्प्रदायिकस्य धार्मिकस्य च सौहार्दस्य रक्षणाय पूर्णतया प्रतिबद्धम् अस्ति। सः अवदत्— “अहं कदापि न भीतः, न चाधुना भीतोऽस्मि।” सः आरोपितवान् यत् तस्योपरि द्विवारं सर्वाधिकपवित्रेषु धार्मिकस्थलेषु आक्रमणं कृतम्, किन्तु सः तेन न भयभीतः अभवत्। सः अवदत् यत् पंजाबस्य प्रगतिः सामाजिक-धार्मिक-सौहार्दं च दलस्य सर्वोच्चप्राथमिकता अस्ति तथा च एतदर्थम् अकालीदलं कस्यापि त्यागात् न निवर्तिष्यते।

कृपाणेन कृतम् आक्रमणम्

यदा सुखबादलः नांदेडस्थितस्य सचखण्डश्रीहुजूरसाहिब-परिसरस्य समीपे आसीत्, तदा तस्योपरि कृपाणेन आक्रमणं कृतम्। तेन सह गच्छतः माध्यम-परामर्शदातुः राज्यदीपस्य अनुसारं गुरुद्वारा-माता-साहिब-दीवानजी-मुक्त-परिसरात् बहिः निर्गच्छन् सः चरणकमलस्य समीपे आसीत्। तदा निहङ्गस्य वेषं धृतवान् एकः व्यक्तिः तस्योपरि कृपाणेन आक्रमणम् अकरोत्। आक्रमणे सुखबादलस्य हस्ते क्षतिः अभवत्। उपचाराय तं यशोसाई-चिकित्सालयं नीतम्, यत्र तस्य हस्तस्य शल्यक्रिया कृता तथा च सीवनानि कृतानि। शुक्रवासरे सः चिकित्सालयात् विमुक्तः।

द्विवर्षेषु द्वितीयम् आक्रमणम्

सुखबीरसिंहबादलः जेड-प्लस-सुरक्षां प्राप्नोति। विगतेषु द्विवर्षेषु तस्योपरि एतत् द्वितीयम् आक्रमणम् इति कथ्यते। अस्मात् पूर्वं २०२४ तमस्य वर्षस्य दिसम्बरमासस्य ४ दिनाङ्के अमृतसरस्थितस्य श्रीहरि-मन्दिरसाहिब-परिसरस्य बहिः तस्योपरि आक्रमणं कृतम् आसीत्। तस्मिन् समये सः श्री-अकाल-तख्तस्य आदेशा-नुसारं परिसरस्य मुख्यद्वारे सेवकस्य दण्डं निर्वहन् आसीत्। नांदेडस्य घटनायाः अनन्तरं सुरक्षाव्यवस्थां धार्मिकस्थलेषु सुरक्षां च प्रति अपि प्रश्नाः उत्पन्नाः सन्ति। प्रकरणस्य अन्वेषणस्य आधारेण आक्रमणस्य कारणं अभियुक्तस्य च अभिप्रायं प्रति सूचनाः प्रकाशं गमिष्यन्ति इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan