Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 14 अगस्तमासः (हि.स.)।केन्द्रीयसर्वकारेण शुक्रवासरे जनगणना २०२७ इत्यस्य द्वितीयचरणस्य अर्थात् जनसंख्यागणनायाः कृते ४० प्रश्नानां प्रश्नावली अधिसूचिता। अस्यां जनानां गणना करिष्यते। प्रथमवारं जनगणनायाः अन्तर्गतं जातिसम्बद्धा सूचनाऽपि सङ्गृह्यते। अस्यां प्रश्नावल्यां नागरिकानां व्यक्तिगतसामाजिकशैक्षिकार्थिकसूचनाभिः सम्बद्धाः प्रश्नाः समाविष्टाः सन्ति। जनैः स्वस्य कोविड्१९ टीकाकरणस्य, बैंकखातानां, आधारस्य, मतदातृपरिचयपत्रस्य तथा अन्यासां सूचनानां विषये अपि पृष्टुं शक्यते।
गृहमन्त्रालयस्य अधीनस्थेन भारतस्य महासञ्ज्ञापकजनगणनायुक्तेन च शुक्रवासरे निर्गतायां अधिसूचनायां जनगणनाधिकारिभ्यः परिवारेभ्यः ४० बिन्दूनां सम्बन्धिनीः सूचनाः सङ्गृहीतुं प्राधिकृत्यं प्रदत्तम् अस्ति। अधिसूचनानुसारं जनगणनाधिकारी स्वस्य निर्धारितस्य स्थानीयक्षेत्रस्य सीमायाः अन्तः निवसद्भ्यः जनभ्यः परिवारानुसूच्याः माध्यमेन एतेषां प्रश्नानाम् उत्तराणि प्रष्टुं शक्नोति। प्रश्नावल्यां व्यक्तेः नाम, परिवारस्य मुखियेन सह सम्बन्धः, लिङ्गम्, जन्मतिथिः तथा आयुः, वैवाहिकस्थितिः तथा विवाहसमये आयुः, पत्न्याः अथवा पत्युः नाम तथा घोषितराष्ट्रियता इत्यादीनां सूचनानां समावेशः अस्ति।
तदतिरिक्तं धर्मः, अनुसूचितजातिः, अनुसूचितजनजातिः, जातिः, मातापित्रोः विवरणम्, दिव्याङ्गता, मातृभाषा तथा अन्यासां भाषाणां ज्ञानम्, साक्षरता तथा अङ्कीयसाक्षरता, शैक्षणिकसंस्थायां शिक्षाग्रहणस्य स्थितिः इत्यादीनां विषये अपि सूचना सङ्गृह्यते। व्यक्तेः उच्चतमशैक्षिकस्तरस्य तथा विषयस्य अथवा संकायस्य सम्बन्धे प्रश्नाः अपि प्रश्नावल्यां समाविष्टाः सन्ति।
रोजगारस्य तथा आर्थिकक्रियाकलापानां सम्बन्धिनीं सूचनां प्राप्तुं एतत् पृष्ट्यते यत् व्यक्तिः गतवर्षे कदापि कार्यं कृतवान् आसीत् वा न वा, तस्य आर्थिकक्रियाकलापस्य श्रेणी का अस्ति, तस्य व्यवसायः कः, उद्योगस्य व्यापारस्य वा सेवायाः स्वरूपं किम् तथा कामगारस्य श्रेणी का अस्ति। अकार्यकराणां तथा सीमितकार्यकराणां अर्धसीमितकार्यकराणां च कृते अार्थिकेतरक्रियाकलापस्य, कार्यस्य अन्वेषणस्य अथवा कार्याय उपलब्धतायाः विषये अपि सूचना याच्यते।
प्रश्नावल्यां कार्यस्थलं प्रति गमनागमनस्य यात्रा, जन्मस्थानम्, पूर्वनिवासस्थानम्, स्थानपरिवर्तनस्य कारणम्, पूर्वप्रवासस्य अनन्तरं ग्रामे वा नगरे वा निवासस्य कालावधिः तथा स्थायिनिवासस्य पतेः सम्बन्धे प्रश्नाः सन्ति। वर्तमानसमये विवाहितानां, विधवानां, विवाहितविच्छिन्नानां तथा पृथक् निवसन्तीनां महिलानां कृते जीवितसन्ततीनां संख्या तथा कदाचित् जीवितरूपेण जातानां सन्ततीनां संख्या इत्यादीनां सम्बन्धे अपि प्रश्नाः समाविष्टाः सन्ति।
तदतिरिक्तं कोविड्१९ टीकाकरणस्य स्थानम्, समग्रबैंकखातानां संख्या, भ्रमणदूरभाषासङ्ख्या तथा आधारसङ्ख्या, यदि उपलब्धा भवेत्, इत्यादीनि पृष्टुं शक्यन्ते। मतदातृपरिचयपत्रस्य सङ्ख्या, भारतीयपारपत्रधारकत्वे पारपत्रसङ्ख्या तथा वाहनचालनानुज्ञापत्रस्य उपलब्धता इत्यादीनां सूचनाः अपि प्रश्नावल्याः भागः सन्ति।
उल्लेखनीयं यत् जनगणना २०२७ द्वयोः चरणयोः आयोज्यते। प्रथमचरणे गृहसूचीकरणं तथा आवासगणना भविष्यति तथा द्वितीयचरणे जनसंख्यागणना भविष्यति। अधिसूचिता प्रश्नावली द्वितीयचरणे अर्थात् जनसंख्यागणनायां प्रत्येकस्य व्यक्तेः तथा परिवारस्य सामाजिकार्थिकशैक्षिकजनसांख्यिकीयसूचनानां सङ्ग्रहस्य आधाररूपेण भविष्यति।
-----------
Hindusthan Samachar / Dheeraj Maithani