शिक्षा, अनुशासनं सम्यक् दृष्टिकोणश्च सफलतायाः कुञ्जिकाः - मुकेशगुप्तः
बरेली, १४ अगस्तमासः (हि.स.)। फ्यूचरविश्वविद्यालयस्य सङ्गणक-अनुप्रयोगविभागस्य पक्षतः नवागन्तुक-विद्यार्थिनां स्वागताय ‘दीक्षारम्भः’ इति नाम्ना भव्यः अभिमुखीकरणकार्यक्रमः आयोजितः। कार्यक्रमस्य शुभारम्भः विश्वविद्यालयस्य कुलाधिपतेः मुकेश-गुप्तस्य, प्र
फ्यूचर यूनिवर्सिटी में ‘दीक्षारंभ’ कार्यक्रम के दौरान अभिनेता सुदेश बेरी, पत्रकार हिमांशी, विश्वविद्यालय पदाधिकारी एवं विद्यार्थी।


बरेली, १४ अगस्तमासः (हि.स.)। फ्यूचरविश्वविद्यालयस्य सङ्गणक-अनुप्रयोगविभागस्य पक्षतः नवागन्तुक-विद्यार्थिनां स्वागताय ‘दीक्षारम्भः’ इति नाम्ना भव्यः अभिमुखीकरणकार्यक्रमः आयोजितः। कार्यक्रमस्य शुभारम्भः विश्वविद्यालयस्य कुलाधिपतेः मुकेश-गुप्तस्य, प्रति-कुलाधिपतेः दीपगुप्तस्य, कुलपतेः प्रो. डॉ. राजेन्द्रसिन्हस्य, मुख्यातिथेः चलचित्रा-भिनेता सुदेशबेरी-महोदयस्य तथा दूरदर्शनपत्रकारस्याः हिमांशी-महोदयायाः संयुक्तरूपेण दीपप्रज्वालनेन अभवत्।

कार्यक्रमे विद्यार्थिभ्यः विश्वविद्यालयस्य शैक्षणिकक्रियाकलापानां, अनुशासनस्य, वृत्तिनिर्माणस्य च विषये सूचना प्रदत्ता। जीवनस्य सफलतायै आवश्यकानां मूल्यानामपि परिचयः कारितः। कुलाधिपतिः मुकेशगुप्तः विद्यार्थिभ्यः स्वजीवनयात्रायाः संघर्षाणां च अनुभवान् सहभागं कृतवान्। तेन उक्तं यत् निरन्तरप्रयत्नेन दृढसङ्कल्पेन च फ्यूचरविश्वविद्यालयस्य स्थापनायाः स्वप्नं साकारं जातम्। तेन उक्तं यत् समाजस्य उत्थानाय सुदृढां शिक्षाव्यवस्थां विद्यार्थिभ्यः सकारात्मकं प्रेरणादायकं च शैक्षणिकवातावरणं प्रदातुं च तस्य प्राथमिकता अस्ति।

कुलपतिः प्रो. डॉ. राजेन्द्रसिन्हः उक्तवान् यत् प्राविधिकशिक्षया सह नैतिकमूल्यानां अनुशासनस्य च भवितुं अत्यन्तम् आवश्यकम् अस्ति। समयपालनस्य निरन्तराध्ययनस्य च अभ्यासः विद्यार्थिनः उत्तमभविष्यस्य दिशि नयति। प्रतिकुलपतिः डॉ. अनुभवसिंहः विद्यार्थिनः उत्साहयन् स्वक्षमतानां परिचयं प्राप्तुं उत्कृष्टतां च प्राप्तुं प्रेरितवान्।

मुख्यातिथिः अभिनेता सुदेशबेरी स्वचलचित्रयात्रायाः जीवनानुभवानां च उल्लेखं कुर्वन् उक्तवान् यत् सफलतायै सम्यक् दृष्टिकोणेन सह कृतज्ञताभावोऽपि आवश्यकः अस्ति। पत्रकारा हिमांशी उक्तवती यत् समस्याः असफलताश्च जीवनस्य अङ्गानि सन्ति। विद्यार्थिभिः असफलताभ्यः न भेतव्यं, अपितु ताभ्यः शिक्षां गृहीत्वा अग्रे गन्तव्यम्।

सङ्गणक-अनुप्रयोगविभागस्य अधिष्ठाता डॉ. अभिषेकसक्सेना नवविद्यार्थिनां स्वागतं कुर्वन् तेषां उज्ज्वलभविष्यस्य कामनां कृतवान्। समापनसमये कुलाधिपतिना कुलपतिना च अतिथिभ्यः स्मृतिचिह्नानि प्रदाय सम्मानं कृतम्।

Hindusthan Samachar / Divya Ranjan