स्वतंत्रता दिवसे 1057 सैनिकान् वीरता व सेवा पदकेन सम्मानयितुं घोषणा
नवदिल्ली, 14 अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य २०२६ तमस्य वर्षस्य अवसरे सर्वकारेण आरक्षीबलस्य, अग्निशमनसेवायाः, गृहरक्षकदलस्य, नागरिकसुरक्षासेवायाः सुधारसेवायाश्च १०५७ कर्मचारिभ्यः शौर्यपदकैः सेवापदकैश्च सम्मानितानां कर्तॄणां घोषणा कृता। के
स्वतंत्रता दिवसे 1057 सैनिकान् वीरता व सेवा पदकेन सम्मानयितुं घोषणा


नवदिल्ली, 14 अगस्तमासः (हि.स.)।

स्वातन्त्र्यदिवसस्य २०२६ तमस्य वर्षस्य अवसरे सर्वकारेण आरक्षीबलस्य, अग्निशमनसेवायाः, गृहरक्षकदलस्य, नागरिकसुरक्षासेवायाः सुधारसेवायाश्च १०५७ कर्मचारिभ्यः शौर्यपदकैः सेवापदकैश्च सम्मानितानां कर्तॄणां घोषणा कृता।

केन्द्रीयगृहमन्त्रालयेन शुक्रवासरे शौर्यस्य ३०१ पदकानां सूची प्रकाशिता। एतेषु आरक्षीकर्मचारिभ्यः २७२ पदकानि अग्निशमनसेवाकर्मचारिभ्यश्च २९ पदकानि सन्ति। ३०१ शौर्यपदकेषु वामपन्थी उग्रवादप्रभावितक्षेत्रेभ्यः १९७, जम्मूकश्मीरात् ५१, पूर्वोत्तरक्षेत्रेभ्यः १२, अन्येभ्यश्च क्षेत्रेभ्यः ४१ कर्मचारिणः सम्मिलिताः सन्ति।

समग्ररूपेण ९२ राष्ट्रपतिपदकानि अपि प्रदत्तानि सन्ति। एतेषु आरक्षीसेवायाः ८३, अग्निशमनसेवायाः ४, नागरिकसुरक्षायाः गृहरक्षकसेवायाश्च ३ तथा सुधारसेवायाः २ पदकानि सन्ति। तदतिरिक्तं ६६४ प्रशंसनीयसेवापदकानि प्रदत्तानि सन्ति। एतेषु आरक्षीसेवायाः ६०६, अग्निशमनसेवायाः २८, नागरिकसुरक्षायाः गृहरक्षकसेवायाश्च १८ तथा सुधारसेवायाः १२ कर्मचारी सम्मिलिताः सन्ति।

जीवनस्य सम्पत्तेश्च रक्षणे, अपराधनिवारणे अथवा अपराधिनां ग्रहणे उल्लेखनीयं साहसं प्रदर्शयितुं शौर्यपदकं प्रदीयते। राष्ट्रपतिविशिष्टसेवापदकं सेवायां विशिष्टाभिलेखाय प्रदीयते तथा प्रशंसनीयसेवापदकं संसाधनसम्पन्नतया कर्तव्यनिष्ठया च युक्तायाः मूल्यवत्याः सेवायै प्रदीयते।

देहलीतः आरक्षी उपमहानिरीक्षकः दिनेशकुमारगुप्तः सहायकः उपनिरीक्षकः राजेशकुमारश्च विशिष्टसेवायै राष्ट्रपतिपदकेन सम्मानितौ स्तः। तदतिरिक्तं उत्कृष्टसेवापदकेन सम्मानितेषु देहलीतः १५ आरक्षीकर्मचारिणः सन्ति। एतेषु महानिरीक्षिका नूपुरप्रसादः, महानिरीक्षकः सुरेन्द्रकुमारः, निरीक्षकः राकेशकुमारभट्टः, उपनिरीक्षिका अञ्जनाकुमारी तथा उपनिरीक्षकः तारादत्तः इत्यादयः अन्ये दश आरक्षीकर्मचारिणश्च सम्मिलिताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani