Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 अगस्तमासः (हि.स.)।
केन्द्रीयस्वास्थ्यमन्त्रिणः परिवारकल्याणमन्त्रिणश्च जेपी नड्डा इत्यस्य गुरुवासरे सायंकाले सहसा स्वास्थ्यावस्था विक्षिप्ता अभवत्, ततः सः अत्रत्ये अखिलभारतीयायुर्विज्ञानसंस्थाने एम्स इत्यस्मिन् चिकित्सार्थं प्रवेशितः। चिकित्सकैः तस्य विस्तृतं चिकित्सापरीक्षणं कृतम्, यस्मिन् तस्य कोरोनरी एन्जियोग्राफी अपि कृता। सम्प्रति तस्य स्वास्थ्यावस्था स्थिरा अस्ति।
एम्स संस्थानेन शुक्रवासरे प्रकाशिते विज्ञप्तौ उक्तं यत् स्वास्थ्यमन्त्रिणः नड्डा इत्यस्य अस्वस्थतायाः शिकायत् अनन्तरं तं चिकित्सापरीक्षणार्थम् चिकित्सालयं नीतम्। चिकित्सकैः तस्य विस्तृतं चिकित्सकीयपरीक्षणं कृतम्, यस्मिन् कोरोनरी एन्जियोग्राफी अपि अन्तर्भवति। सम्प्रति तस्य स्वास्थ्यावस्था स्थिरा अस्ति। एम्स संस्थानस्य हृदयरोगविभागे तस्य उपचारः प्रचलति, यत्र विशेषज्ञचिकित्सकानां दलं तस्य निरन्तरं निरीक्षणं कुर्वत् अस्ति।
------------
Hindusthan Samachar / Dheeraj Maithani